________________
१४१
प्रवरमारी. महाजनव्यवहारश्च । न हि देवदत्तस्यापत्यं देवदत्तस्य गोत्रं यज्ञदत्तस्यापत्यं यज्ञदत्तस्य गोत्रं इत्यादि व्यवहरन्ति । नापि यज्ञदत्तस्य पुत्री यज्ञदत्तस्य पुत्रं भिन्नगोत्रं मत्वा विवाहयन्ति । सप्तर्घ्यपत्यमात्रे गोत्रे सति तथा व्यवहरेयुः, तथा विवाहयेयुः । तस्मादगस्त्याष्टमसप्तर्ण्यपत्यव्रातमहासमुद्रान्तर्गतानामृषीणामेव मन्त्रहशां अमन्त्रहशां 'च गोत्रत्वमत्र लक्षयितव्यमिति द्रष्टव्यं, अव्याप्त्य. तिव्याप्त्योरभावात्, लोकव्यवहारानुगुण्याच्च । तथाहि लोकव्य. वहारः-मार्कण्डेयगोत्रा वयं याज्ञवल्क्यगोत्रा वयं शालकायनगोत्रा वयं आपस्तम्बगोत्रा वयं आश्वलायनगोत्रा वयमित्यादि । याज्ञयवल्क्यो येषां गोत्रं मूलकारणं ते याज्ञवल्क्यगोत्रा इति बहुव्रीहित्वात्पुल्लिङ्गेन निर्देशाश्च । 'सर्वे समानगोत्रास्स्युरिति गाणगारिरपि नानागोत्रास्स्युरिति शौनकः' इत्याद्या अनुपपन्ना' एव भवेयुरिति साधूक्तमगस्त्याष्टमानां सप्तानां सप्तर्षीणां यदपत्यं तद्गोत्रमिति ॥ अत्राहुः कस्येयमृषिसंज्ञा, किं तदृषित्वं नामति वक्तव्यमिति । अत्र ब्रूमः-गर्भाधानादिभिश्चत्वारिंशता संस्कारैस्संस्कृतानां अष्टभिरात्मगुणैश्चालङ्कतानां अगस्त्याष्टमापत्यानां मध्ये यस्तपसि सान्तत्येन क्रियमाणे जगत्प्रसिद्धः स ऋषिरित्युच्यते । तथा हि वाजिनां अग्निरहस्ये श्रुतिः---' असद्वा इदमग्र आसीत् तदाहुः किं तदसदासीदिति ऋषयो वाव तेऽने सदासीत् तदाहुः के ते ऋषय इति प्राणा वा ऋषयः ते यदास्मा सर्वस्मादिदमिच्छन्तः श्रमेण तपसा · चर्षत तस्मादृषयः' इति । अत्र ऋषयः जगत्प्रसिद्धिं गतवन्त इत्यर्थः । इत्थंलक्षणकानामृषीणां मध्ये ये महत्त्वेन जगति प्रसिद्धास्ते महर्षय इत्युच्यन्ते, ‘महर्षीणां भृगुरहम्' इति दर्शनात् । इत्थंलक्षणकानां ऋषीणां मध्ये येषा
1शृं-कोशे 'अमन्त्रदृशां' इति न दृश्यते. उपपन्नाः ,
___३ ते यत्पूर्वस्मा गगहमिच्छन्तः,