________________
१३६
प्रवरमअरी, . श्रेष्ट्यं च सर्वगृहिणामितराश्रमिभ्यः फालं विशिष्टमपि शिष्यहिता
र्थमुक्त्वा ॥ बोधायनादिमुनयश्श्रुतितुल्यवाचस्सर्वे निजप्रवरशास्त्रसमाप्तिमाहुः ॥
अत्राह बोधायनः
सगोत्रां गत्वा चान्द्रायणं कुर्यास्ते परिनिष्ठिते ब्राह्मणी न त्यजेत् मातृवद्भगिनीवत् । गर्भो न दृष्यति कश्यप इति विज्ञायते । अथ सन्निपाते विवाहं तदध्यायैर्वर्जयेत् । बोधायनस्य तत्प्रमाणं हि कर्तव्यम् । मानव्यो हि प्रजा इति विज्ञायते
गोत्राणां तु सहस्राणि प्रयुतान्यर्बुदानि च । ऊनपञ्चादशदेवैषां प्रवरा ऋषिदर्शनात् ॥ विश्वामित्रो जमदग्निर्भरद्वाजोथ गौतमः । अत्रिर्वसिष्ठः कश्यप इत्येते सप्त ऋषयः॥
सप्तानां सप्तऋषीणां अगस्त्याष्टमानां यदपत्यं तद्गोत्रमित्युच्यते । न भवत्ययाजनीयो यः परप्रवरान स्वांश्च जानाति । मन्त्रब्राह्मणं वेद इत्याचक्षते । तस्मात्प्रवरज्ञाने यत्नो महान् द्विजैः कार्यः । श्राद्धविवाहवृद्धयो देवास्स्तोत्र'गोत्रमूलानि च महा
1 विवाहात्विजो देवात् स्तोत्रम् .