SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ १२५ १२५ अगस्तिकान्छ, येषां तु नाम्नां परिकीर्तनेन पापं समग्रं पुरुषो जहाति ॥ इति पुरुषोत्तमपण्डितविरचितायां गोत्रप्रवरमञ्जयाँ __ मत्स्यपुराणोक्तः भृग्वङ्गिरसामगस्त्याष्टमसप्तर्षी णां प्रवराध्यायः समाप्तः. एतेष्वगस्तिगोत्रकाण्डेषु उदाहृतानामगस्तिगोत्रगणानां सर्वेषां परस्परं विवाहो नास्ति, सगोत्रत्वात् । समानगोत्रत्वं चाष्टमस्यागस्तेः सर्वेषु प्रवरेष्वनुवृत्तेः, त्र्योपैयाणां व्यारेयसन्निपाताच्च ॥ इति व्याख्यातमगस्तिगोत्रकाण्डम् । अत्र श्लोकः न विवाहोस्त्यगस्तीनां सर्वेषामितरेतरम् । समानमुनिबाहुल्यात्सगोत्रत्वाच्च कारणात् ॥ इति ॥ ___ इति पुरुषोत्तमपण्डितविरचितायां गोत्रप्रवर मञ्जर्यामगस्तिगोत्रकाण्डं समाप्तम् ।। इह जमदग्निगौतमभरद्वाजविश्वामित्रात्रिकश्यपवसिष्ठागस्तीनामष्टानां गोत्रकाराणां ऋषीणामपत्यवर्गेषु अष्टसु समानगोत्रत्वात् परस्परमविवाहमुक्त्वा तदनन्तरमापस्तम्बसूत्रभाष्यकारेण कपर्दिस्वामिना परं किञ्चिदुक्तम् ; किं तदिति चेत् ? तदीयभाष्यं पठामःइह भृस्वङ्गिरसो भिन्नविवाहं कुर्वते । न चेत्समानार्षेया बहवस्स्युरिति मतं बोधायनस्येत्येतत्सर्वेषां प्रवराचार्याणां मतम्, न केवलं बोधायनस्यैव । वसिष्टानां कश्यपानां विश्वामित्राणां भृग्वङ्गिरसामिव भिन्नविवाहं गर्ग इच्छति । कठानां प्रवरे चैवम् । अन्ये तेषां भिन्नविवाहं नेच्छन्ति । तत्रैवं तेषां ऋषिपक्षाणां
SR No.007198
Book TitleGotra Pravar Nibandh Kadambam
Original Sutra AuthorN/A
AuthorP Chentsalrao
PublisherGovernment of Mysore
Publication Year1900
Total Pages480
LanguageEnglish, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Book_English, & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy