________________
५१६
व्युत्पत्तिदीपिकाभिधान-ढुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ।
[गले ] गर । प्रथमा सि । अनेन रस्य लः । 'अत एत्सौ०' (४।२८७) एत्त्वं - ल० → ले० । 'अन्त्यव्य०' (१।११) स्लुक् गले ।
[हंशे] हंस । प्रथमा सि । अनेन स० → श० । 'अत एत्सौ पुंसि०' (४।२८७) श० → शे० । 'अन्त्यव्य०' (१।११) स्लुक् हंशे।
[शदं ] श्रुत । प्रथमा सि । 'सर्वत्र ल-व०' (२७९) लुक् । 'श-षोः सः' (१।२६०) शु० → सु० । अनेन सु० → शु० । 'शेषं शौरसेनीवत्' (४।३२३) इति न्यायात् 'तो दोऽनादौ०' (४।२६०) तस्य दः । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१९२३) अनुस्वारः शुदं ।
[शोभणं] शोभन । प्रथमा सि । 'श-षोः सः' (१।२६०) शो० → सो० । अनेन सस्य शः । 'नो णः' (१।२२८) न० → ण । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१९२३) अनुस्वारः शोभणं । __[शालशे] सारस । प्रथमा सि । अनेन सा-स० → शा-श०- र० → ल० च । 'अत एत्सौ पुंसि०' (४।२८७) एत्त्वं - श० → शे० । 'अन्त्यव्यः' (१११) स्लुक् शालशे।
[पुलिशे] पुरुष । प्रथमा सि । 'पुरुषे रोः' (१।११) रु० → रि० । अनेन रि० → लि० । 'श-षोः सः' (१।२६०) षस्य सः । अनेन सस्य शः । 'अत एत्सौ पुंसि०' (४।२८७) एत्त्वं - श० → शे० । 'अन्त्यव्य०' (१।११) स्लुक् पुलिशे ।
[लहश-वश-नमिल-शुल-शिल-विअलिद.........] अस्यार्थ:- रभस- वश-नम्र-सुर-शिरः-विगलित-मन्दार-राजितांहियुगः ।
वीरजिनः प्रक्षालयतु मम सकलमवद्य-जम्बालम् ॥ अथ व्युत्पत्ति:- [लहश] रभस । अनेन रस्य ल:- सस्य शः । 'ख-घ-थ-ध-भाम्' (११८७) भस्य हः लहश । [वश] वश । 'श-षोः सः' (१२२६०) श० → स० । अनेन स० → श० वश । [नमिल ] नम्र । 'लात्' (२।१०६) रपूर्व० इ० । 'लोकात्' (१।१।३) नमिर । अनेन रस्य ल: नमिल । [शुल] सुर । अनेन रस्य लः - सस्य शः शुल। . )
[शिल ] शिरस् । 'अन्त्यव्य०' (१।११) स्लुक् । 'श-षोः सः' (१।२६०) शि० → सिं० । अनेन र० → ल० - सि० → शि० शिल।
[विअलिद] विगलित । 'क-ग-च-ज०' (१।१७७) ग्लुक् । 'शेषं शौरसेनीवत्' (४।३२३) इति न्यायात् 'तो दोऽनादौ०' (४।२६०) त० → द० विअलिद ।
[मन्दाल] मन्दार । अनेन रस्य लः मन्दाल ।
[लायिदंहियुगे] राजितांहियुग । अनेन रा० → ला० । 'ज-द्य-यां यः' (४।२९२) जि० → यि० । 'हस्वः संयोगे' (१८४) ता० → त० । 'तो दोऽनादौ०' (४।२६०) त० → द० । 'सर्वत्र ल-व०' (२७९) रलुक् । 'अत एत्सौ पुंसि०' (४।२८७) एत्वं - ग० → गे० । 'अन्त्यव्य०' (१।११) स्लुक् लायिदंहियुगे ।
[वीलयिणे] वीरजिन । प्रथमा सि । अनेन रस्य लः । 'ज-द्य-यां यः' (४।२९२) जि० → यि० । 'नो णः' (१।२२८) न० → ण । 'अत एत्सौ पुंसि०' (४।२८७) एत्त्वं- ण० → णे० । 'अन्त्यव्य०' (१२११) स्लुक् वीलयिणे। १. A. गले उदाहरणम् ।