________________
५१४
व्युत्पत्तिदीपिकाभिधान-ढुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ।
॥ अथ मागधी भाषा ॥
अत एत्सौ पुंसि मागध्याम् ॥ ८।४।२८७ ॥ मागध्यां भाषायां सौ परे अकारस्य एकारो भवति, पुंसि-पुल्लिङ्गे ॥
एषः मेषः → एशे मेशे । एशे पुलिशे। करोमि भदन्त ! → करेमि भंते ! ॥ अत इति किम् ? णिही । कली । गिली ॥ पुंसीति किम् ? जलं ॥
यदपि "पोराणमद्धमागहभासानिययं हवइ सुत्तं" इत्यादिनार्षस्य अर्धमागधभाषानियतत्वमाम्नायि वृद्धस्तदपि प्रायोऽस्यैव विधानान्न वक्ष्यमाणलक्षणस्य ॥ कयरे आगच्छइ ॥ से तारिसे दुक्खसहे जिइंदिए इत्यादि ॥ __ [अत एत्सौ पुंसि मागध्याम्] अत् षष्ठी ङस् । एत् प्रथमा सि । सि सप्तमी ङि । पुम्स् सप्तमी ङि । मागधी सप्तमी ङि।
[एशे मेशे] एतद् । प्रथमा सि । 'अन्त्यव्यञ्जनस्य' (१।११) द्लुक् । 'तदश्च तः सोऽक्लीबे' (३।८६) तस्य सः । 'र-सोर्ल-शौ' (४।२८८) सस्य शः । एतेन एत्त्वं-श० → शे० । 'अन्त्यव्य०' (१।११) स्लुक् । एशे । एष इत्यर्थः ।
मेष । प्रथमा सि । 'श-षोः सः' (१।२६०) षस्य सः । 'र-सोर्ल-शौ' (४।२८८) सस्य शः । अनेन एत्त्वं - श० → शे० । 'अन्त्यव्य०' (१।११) स्लुक मेशे।
[एशे पुलिशे] एशे पूर्ववत् । पुरुष । प्रथमा सि । 'पुरुषे रोः' (१।१११) रु० → रि० । 'र-सोर्ल-शौ' (४।२८८) रि० → लि० । 'श-षोः सः' (१।२६०) ष० → स० । 'र-सोर्ल-शौ' (४।२८८) स० → श० । एतेन एत्त्वं - श० → शे० । 'अन्त्यव्य०' (१।११) स्लुक पुलिशे ।
[करेमि भंते !] 'डुकंग करणे' (८८८) कृ । वर्त० मिव् । 'तृतीयस्य मिः' (३।१४१) मिव्० → मि० । 'ऋवर्णस्याऽर:' (४।२३४) कृ० → कर० । 'व्यञ्जनाददन्ते' (४।२३९) अत् । 'लोकात्' (१।१।३) करमि । 'वर्तमानापञ्चमी०' (३।१५८) र० → रे० करेमि ।
भदन्त । प्रथमा सि । गोणादित्वाद् आर्षत्वाद्वा दलोपः । अनेन एत्त्वं - त० → ते. भंते ! ।
१. करेमि भंते ! सामाइयं सावज्जं जोगं पच्चक्खामि । [आवश्यकसूत्रे सामायिकसूत्रे]
करोमि भदन्त ! सामायिकं सावधं योगं प्रत्याख्यामि । २. कयरे आगच्छह दित्तरूवे, काले विगराले फोक्कनासे । __ ओमचेलए पंसुपिसायभूए, संकरदूसं परिहरिअ कंठे ॥ [उत्तरा० द्वादशे हरिकेशीयाध्ययने गा० ६] कतर आगच्छति दीप्तरूपः, कालो विकरालो फोक्कनासः । अवमचेलक: पांशुपिशाचभूतः, सङ्करदूष्यं परिधृत्य कण्ठे ॥ ३. से तारिसे दुक्खसहे जिइंदिए, सुएण जुत्ते अममे अकिंचणे । विरायई कम्मघणंमि अवगए, कसिणब्भपुडावगमे व चंदिमे ।।
॥त्ति बेमि ॥
[दश० वै० अष्टमे आचारप्रणिध्यध्ययने गाथा-६३] स तादृशो दुःखसहो जितेन्द्रियः श्रुतेन युक्तोऽममोऽकिञ्चनः । विराजते कर्मघनेऽपगते, कृत्स्नाभ्रपुटावगमे इव चन्द्रमाः ॥
॥ इति ब्रवीमि ॥