________________
५१२
व्युत्पत्तिदीपिकाभिधान-ढुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ।
[नमोत्थु णं] नमोऽस्तु । 'स्तस्य थोऽसमस्त-स्तम्बे' (२।४५) स्तु० → थु० । 'अनादौ०' (२।८९) द्वित्वं - थु० → थ्थु० । 'द्वितीय-तुर्ययो०' (२।९०) पूर्वथस्य तः नमोत्थु णं । .
[जया णं ] यदा । 'क-ग-च-ज०' (१।१७७) द्लुक् । 'अवर्णो यश्रुतिः' (१।१८०) आ० → या० । 'आदेर्यो जः' (१।२४५) य० → ज० जया णं । [तया णं] तदा । 'क-ग-च-ज०' (१११७७) द्लुक् । 'अवर्णो यश्रुतिः' (१११८०) आ० → या० तया णं ॥२८३॥
अम्महे हर्षे ॥ ८।४।२८४ ॥ शौरसेन्यां अम्महे इति निपातो हर्षे प्रयोक्तव्यः । अम्महे एआए सुम्मिलाए सुपलिगढिदो भवं ॥ [अम्महे हर्षे ] अम्महे प्रथमा सि । हर्ष सप्तमी ङि ।
[अम्महे एआए सुम्मिलाए सुपलिगढिदो भवं] एतद् । सप्तमी ङि । 'अन्त्यव्य०' (१।११) द्लुक् । 'आत्' (२।४।१८) आप्प्र० → आ० । 'टा-ङस्-डेरदादिदेद्वा०' (३।२९) ङि० → ए० । 'क-ग-च-ज०' (१।१७७) त्लुक् एआए।
सुम्मिला । सप्तमी ङि । 'टा-ङस्-उ०' (३।२९) ङि० → ए० सुम्मिलाए ।
परिघटित । 'र-सोल-शौ' (४।२८८) रि० → लि० । 'घटेगढः' (४।११२) घटि० → गढि० । 'तो दोऽनादौ०' (४।२६०) तस्य दः पलिगढिदो । भवान् । भवं (४।२६५) सूत्रवत् ।।२८४॥
हीही विदूषकस्य ॥ ८।४।२८५ ॥ शौरसेन्यां हीही इति निपातो विदूषकाणां हर्षे द्योत्ये प्रयोक्तव्यः ।। हीही भो ! संपन्ना मणोरधा पियवयस्सस्स ॥ [हीही विदूषकस्य ] हीही प्रथमा सि । विदूषक षष्ठी ङस् ।
[हीही भो ! संपन्ना मणोरधा पियवयस्सस्स ] भोस् इत्यव्ययं सिलुकि सिद्धम् भो !। संपन्न । प्रथमा जस् । 'जस्-शस्-ङसि०' (३।१२) दीर्घः । 'जस्-शसो०' (३।४) जस्लुक् संपन्ना । मनोरथ । प्रथमा जस् । 'जस्-शस्-ङसि०' (३।१२) दीर्घः । 'जस्-शसोलुंक्' (३।४) जस्लुक् । 'थो ध:' (४।२६७) था० → धा० । 'नो णः' (१।२२८) नो० → णो० मणोरधा । प्रियवयस्य । षष्ठी ङस् । 'अधो म-न-याम्' (२७८) यलुक् । 'अनादौ०' (२२८९) द्वित्वं-स० → स्स० । 'सर्वत्र ल-व०' (२७९) लुक् । 'ङसः स्सः' (३।१०) ङस्० → स्स० पियवयस्सस्स । प्रियवयस्यस्य मनोरथाः संपन्ना इत्यर्थः ॥२८५।।
शेषं प्राकृतवत् ॥ ८।४।२८६ ॥ शौरसेन्यामिह प्रकरणे यत्कार्यमुक्तं ततोऽन्यच्छौरसेन्यां प्राकृतवदेव भवति ॥
'दीर्घ-हस्वौ मिथो वृत्तौ' (१।४) इत्यारभ्य 'तो दोऽनादौ शौरसेन्यामयुक्तस्य' (४।२६०) एतस्मात्सूत्रात्प्राग् यानि सूत्राणि एषु यान्युदाहरणानि तेषु मध्ये अमूनि तदवस्थान्येव शौरसेन्यां भवन्ति, अमूनि पुनरेवंविधानि भवन्तीति विभाग: प्रतिसूत्रं स्वयमभ्यूह्य दर्शनीयः ॥ यथा- अन्दावेदी । जुवदिजणो । मणसिला इत्यादि ॥