________________
अष्टमाध्यायस्य चतुर्थः पादः ॥
४२९
[णिज्झाइ णिज्झाअइ ] निपूर्व० ध्यै (२) । अनेन ध्यैः → झा० इत्यादेशः । वर्त० तिव् । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इ० । 'स्वरादनतो वा' (४।२४०) अकारागमः । 'तैलादौ' (२।९८) झस्य द्वित्वम् । 'द्वितीय-तुर्ययो०' (२।९०) पूर्वझस्य जः । 'नो णः' (१।२२८) नि० → णि० णिज्झाइ णिज्झाअइ ।
'[काइ काअइ ] 'कै शब्दे' (३६) कै (२) । अनेन का० । वर्तः तिव् । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इ० । द्वितीये 'स्वरादनतो वा' (४।२४०) अकारागमः काइ काअइ ।
[गाइ गाअइ ] 'मैं शब्दे' (३७) गै (२) । अनेन गा० । वर्तः तिव् । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इ० । द्वितीये 'स्वरादनतो वा' (४।२४०) अकारागमः गाइ गाअइ ।
[राइ राअइ] ' शब्दे' (३८) रै (२) । अनेन रा० । वर्तः तिव् । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इ० । द्वितीये 'स्वरादनतो वा' (४।२४०) अकारागमः राइ राअइ ।
[झाणं] 'ध्य चिन्तायाम्' (३०) ध्यै । ध्यायते इति ध्यानम् । अनटप्र० → अन । अनेन ध्यै० → झा० । क्वचिदेकपदेऽपि सन्धिः । 'समानानां०' (१।२।१) दीर्घः । 'नो णः' (१।२२८) न० → ण० झाणं ।
[गाणं] 'मैं शब्दे' (३७) गै । गीयते इति गानम् । अनट्प्र० → अन । अनेन गै० → गा० । क्वचिदेकपदेऽपि सन्धिः । 'समानानां०' (१।२।१) दीर्घः । 'नो णः' (१।२२८) न० → ण० गाणं ॥६॥
ज्ञो जाण-मुणौ ॥ ८।४७ ॥ जानातेर्जाण-मुण इत्येतावादेशौ भवतः ।।
जाणइ । मुणइ । बहुलाधिकारात् क्वचिद्विकल्पः । जाणिअं। णायं । जाणिऊण । णाऊण । जाणणं । णाणं । मणइ इति तु मन्यतेः ॥
[ज्ञो जाण-मुणौ ] ज्-ज्ञा षष्ठी ङस् । जाण-मुण प्रथमा औ ।
[जाणइ मुणइ ] 'ज्ञांश् अवबोधने' (१५४०) ज्ञा । वर्त्तः तिव् । अनेन ज्ञा० → जाण०-मुण० । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इ० जाणइ मुणइ ।
[जाणिअं णायं] ज्ञा (२) । ज्ञायते इति । क्तप्र० । बहुलाधिकारात् क्वचिद्विकल्पेन जाण आदेशः । 'व्यञ्जनाददन्ते' (४।२३९) अत् । प्रथमे 'क्ते' (३।१५६) इत्त्वम् । द्वितीये 'म्न-ज्ञोर्णः' (२।४२) ज्ञस्य णः । 'क-ग-च-ज०' (१।१७७) त्लुक् । 'अवर्णो०' (१।१८०) अ० → य० जाणिअं णायं । _ [जाणिऊण णाऊण ] ज्ञा (२) । क्त्वाप्र० । 'क्त्वस्तुमत्तूण-तुआणाः' (२।१४६) क्त्वा० → तूण० । प्रथमे जाण आदेशः । 'एच्च क्त्वा-तुम्०' (३।१५७) इत्त्वम् । द्वितीये 'म्न-ज्ञोर्णः' (२४२) ज्ञा० → णा० । 'क-ग-च-ज०' (१।१७७) त्लुक् जाणिऊण णाऊण ।
[जाणणं णाणं] ज्ञा (२) । ज्ञायते इति ज्ञानम् । अनट्प्र० । वा जाण आदेशः । द्वितीये 'म्न-ज्ञोर्णः' (२२४२) ज्ञा० → णा० । एकपदेऽपि सन्धिः । 'समानानां०' (१।२।१) दीर्घः । 'नो णः' (११२२८) न० → ण० जाणणं णाणं ॥७॥
उदो ध्मो धुमा ॥ ८४८ ॥ उदः परस्य ध्मो धातोर्धमादेशो भवति ।। उधुमाइ ॥ [ उदो ध्मो धुमा ] उद् पञ्चमी ङसि । ध्मा षष्ठी ङस् । धुमा प्रथमा सि ।
१. A. काइ काअइ उदाहरणम् । २. A. राइ राअइ उदाहरणम् ।