________________
४८२
व्युत्पत्तिदीपिकाभिधान-ढुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ।
[पमिलइ पमीलइ निमिल्लइ निमीलइ सम्मिल्लइ सम्मीलइ] प्रपूर्व० 'मील निमेषणे' (४१५) मील (२) । वर्त० तिव् । 'व्यञ्जना०' (४।२३९) अत् । अनेन वा द्वित्वं - ल० → ल्ल० । 'लोकात्' (१२१३) प्रमील्लति । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इ० । यत्र द्वित्वं तत्र 'हुस्वः संयोगे' (१९८४) हुस्वः - पमिलइ । पमीलइ । निद्रां करोतीत्यर्थः ।
एवं निपूर्व० - निमिल्ला । निमीलइ । सम्पूर्व० - सम्मिलइ । सम्मीलइ । । [उम्मिलइ उम्मीलइ] उत्पूर्व० मील(२) । वर्त० तिव् । 'व्यञ्जना०' (४।२३९) अत् । अनेन वा द्वित्वं - ल० → ल० । 'लोकात्' (१।१३) उत्मील्लति । प्रथमे 'हुस्वः संयोगे' (१८४) हुस्व:-मी० → मि० । उभयत्र 'क-ग-ट-ड०' (२७७) त्लुक् । 'अनादौ०' (२२८९) द्वित्वम् । उम्मिल्लइ उम्मीलइ । प्रकटीभवतीत्यर्थः ।।
- [मीलइ ] मील् । वर्त० तिव् । 'व्यञ्जनाददन्ते' (४।२३९) अत् । 'लोकात्' (१।१।३) मीलति । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इ० मीलइ ॥२३२॥
उवर्णस्याऽवः ॥८।४।२३३ ॥ धातोरन्त्यस्य उवर्णस्य अवादेशो भवति ॥ हनुङ् - निण्हवइ । हु - निवहइ । च्युङ् - चवइ । रु - रवइ । कु - कवइ । सु - सवइ । पसवइ ।। [ उवर्णस्याऽवः] उवर्ण षष्ठी ङस् । अव प्रथमा सि ।
[निण्हवइ ] 'हनुङ्क् अपनयने' (११०६) हनु, निपूर्व० । वर्त० ते । 'सूक्ष्म-श्न-ष्ण-स्न-ह्न-ण-क्ष्णां ग्रहः' (२७५) हनु० → ण्हु० । अनेन अव० –ण्हु० → हव० । 'व्यञ्जनाददन्ते' (४।२३९) अत् । 'लोकात्' (१।१।३) निण्हवते । 'त्यादीनामाद्य०' (३।१३९) ते० → इ० निण्हवइ ।
[निहवइ ] निपूर्व० 'हुंक् दाना-ऽदनयोः' (११३०) हु। वर्त० तिव् । अनेन अव० । 'व्यञ्जना०' (४।२३९) अत् । 'लोकात्' (१।१।३) निहवति । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इ० निहवइ । होमं करोतीत्यर्थः ।
[चवइ ] 'च्युङ् गतौ' (२९४) च्यु । वर्त० ते । अनेन अव० । 'व्यञ्जना०' (४।२३९) अत् । 'लोकात्' (१।१।३) च्यवते । 'त्यादीनामाद्य०' (३।१३९) ते० → इ० । 'अधो म-न-याम्' (२।७८) य्लुक् चवइ ।
[रवइ ] टुक्षु (१०८४) - 'रु शब्दे' (१०८५) रु । वर्त० तिव् । अनेन अव० । 'व्यञ्जना०' (४।२३९) अत् । 'लोकात्' (१।१।३) रवति । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इ० रवइ ।
[कवइ] टुक्षु (१०८४) - रु (१०८५) - 'कुंक् शब्दे' (१०८६) कु । वर्त० तिव् । अनेन अव० । 'व्यञ्जना०' (४।२३९) अत् । 'लोकात्' (१।१।३) कवति । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इ० कवइ ।
[सवइ ] 'धूक प्रसवैश्वर्ययोः' (१०७८) षु । 'षः सोऽष्ट्यै-ष्ठिव-ष्वष्कः' (२।३।९८) सु । वर्त० तिव् । अनेन अव० । 'व्यञ्जनाददन्ते' (४।२३९) अत् । 'लोकात्' (१।१।३) सवति । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इ० सवइ।
[पसवइ] प्रपूर्व० 'कुंक् प्रसवैश्वर्ययोः' (१०७८) षु । 'ष: सोऽष्ट्यै०' (२।३।९८) सु । वर्त० तिव् । अनेन अव० । 'व्यञ्जना०' (४।२३९) अत् । 'लोकात्' (११।३) प्रसवति । 'सर्वत्र ल-व०' (२२७९) लुक् । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इ० पसवइ ॥२३३॥
ऋवर्णस्याऽरः ॥८४॥२३४ ॥ धातोरन्त्यस्य ऋवर्णस्य अरादेशो भवति ॥