SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ ॥ अर्हम् ॥ ॥ नमो नमः श्रीगुरुनेमिसूरये ॥ बृहत्तपागच्छीय-श्रीउदयसौभाग्यगणिविरचितया व्युत्पत्तिदीपिकाभिधान-ढुण्ढिकया समर्थितं सिद्धहेमप्राकृतव्याकरणम् ॥ [ द्वितीयो भागः] ॥ अथ अष्टमाध्यायस्य चतुर्थः पादः ॥ इदितो वा ॥ ८॥४॥१॥ सूत्रे ये इदितो धातवो वक्ष्यन्ते तेषां ये आदेशास्ते विकल्पेन भवन्तीति वेदितव्यम् । तत्रैवोदाहियन्ते ॥ [इदितो वा] इदित् प्रथमा जस् । वा प्रथमा सि । कथेर्वज्जर-पज्जरोप्पाल-पिसुण-संघ-बोल्ल-चव-जम्प-सीस-साहाः ॥ ८॥४॥२॥ कथेर्धातोर्वज्जरादयो दशादेशा भवन्ति ॥ वज्जरइ । पज्जरइ । उप्पालइ । पिसुणइ । संघइ । बोल्लइ । चवइ । जम्पइ । सीसइ । साहइ । उब्बुक्कइ इति उत्पूर्वस्य 'बुक्क भाषणे' (५४) इत्यस्य । पक्षे-कहइ ।। एते चान्यैर्देशीषु पठिता अपि अस्माभिर्धात्वादेशीकृता विविधेषु प्रत्ययेषु प्रतिष्ठन्तामिति । तथा च । वज्जरिओ कथितः । वज्जरिऊण कथयित्वा । वज्जरणं कथनम् । वज्जरन्तो कथयन् । वज्जरिअव्वं कथयितव्यमिति रूपसहस्राणि सिध्यन्ति । संस्कृतधातुवच्च प्रत्ययलोपागमादिविधिः ।। [कथेर्वज्जर-पज्जरोप्पाल-पिसुण-संघ-बोल्ल-चव-जम्प-सीस-साहाः] कथि षष्ठी ङस् । वज्जर-पज्जरोप्पालपिसुण-संघ-बोल्ल-चव-जम्प-सीस-साह प्रथमा जस् । पक्षे- [कहइ ] 'कथण वाक्यप्रबन्धे' (१८८०) कथ । वर्त० तिव् । 'प्रायो ण्यन्ताथुरादयः' इति न्यायात् साध्यत्वाद् वा णिजभावः । णिचि वा 'णेरदेदावावे' (३।१४९) णिस्थाने अत् । 'लोकात्' (१।१३) कथति । 'अदेल्लुक्यादे०' (३।१५३) क० → का० । 'स्वराणां स्वराः' (४।२३८) का० → क० । 'ख-घ-थ-ध-भाम्' (१।१८७) थस्य हः । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इ० कहइ । ननु देशे भवा देश्या इति कुतो न स्यात् ? उच्यते-देशीशब्दस्स्त्रीलिङ्गो नाममालावाचकः । [वज्जरिओ कथितः] वज्जर । क्तप्र० → त० । 'ते' (३।१५६) इ० वज्जरिओ ॥२॥ १. . तत्रैव चोदाहरिष्यते ।
SR No.007102
Book TitleVyutpatti Dipikabhidhan Dhundikaya Samarthitam Siddha Hem Prakrit Vyakaranam Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2017
Total Pages368
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy