________________
४७६
व्युत्पत्तिदीपिकाभिधान-दुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ।
[पडइ] 'पत्लु गतौ' (९६२) पत् । वर्त० तिव् । 'व्यञ्जना०' (४।२३९) अत् । अनेन त० → ड० । 'लोकात्' (१।१।३) पडति । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इ० पडइ ॥२१९॥
क्वथ-वर्धा ढः ॥ ८।४।२२० ॥
अनयोरन्त्यस्य ढो भवति ।
कढइ । वड्ढइ पवय-कलयलो । परिअड्ढइ लायण्णं ॥ बहुवचनाद् वृधेः कृतगुणस्य वर्धेश्चाविशेषेण ग्रहणम् ॥ [क्वथ-वर्धा ढः] क्वथ-व: षष्ठी आम् । ढ प्रथमा सि ।
[कढई] 'क्वथे निष्पाके' (९६४) क्वथ् । वर्त० तिव् । 'व्यञ्जनाददन्ते' (४।२३९) अत् । अनेन थ० → ढ० । 'लोकात्' (१।१।३) क्वढति । 'सर्वत्र ल-व०' (२१७९) व्लुक् । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इ० कढइ ।
[वड्ढइ पवयकलयलो चलइ चलंतवडयामुहो सलिलनिही। पवणनिराइयरुक्खा पडंति उद्धठिअनिज्झरा धरणिधरा] ||
अस्यार्थ:- प्लवगकलकलो वर्धते । सलिलनिधिश्चलति । किविशिष्टः सलिलनिधिः? चलद्वडवामुखो-वडवानलो यत्र सः । धरणिधराः पर्वताः पतन्ति । किविशिष्टा धरणिधराः ? पवनेन-वायुना निराजिता:-कम्पिता वृक्षा येषु ते - पवननिराजितवृक्षाः । पुनः किविशिष्टा धरणिधराः ? ऊर्ध्वस्थितनिर्झरा इति गाथार्थः ।
'वर्धण् छेदन-पूरणयोः' (१६६१) वर्ध । बहुवचनात् कृतगुणस्य 'वृधूङ् वृद्धौ' (९५७) इत्यस्य धातोर्ग्रहणं, तत्रापि वर्द्ध इति मण्डनिका । वर्त० ते । अनेन र्द्धस्य ढः । 'अनादौ०' (२१८९) द्वित्वं-ढ्ढ० । 'द्वितीय-तुर्य०' (२९०) पूर्वढस्य ड: वड्ढइ ।
प्लवगकलकल । प्रथमा सि । 'सर्वत्र ल-व०' (२७९) ल्लुक् । 'क-ग-च-ज०' (१।१७७) क-गयोर्लुक् । 'अवर्णो०' (१।१८०) अ० → य० । 'अतः सेझैः' (३।२) सि० → डो० → ओ० पवयकलयलो ।
परिअड्ढइ लायण्णं पययच्छायाए सक्कवयणाणं(णेण)।
सक्कइ सकारुक्करिसणेण पययस्स वि पहावो ॥ अस्य व्याख्या - संस्कृतवचसा लावण्यं वर्धते । किं० संस्कृतवचसा ? प्राकृतछायाया(यया) प्राकृतस्यापि प्रभाव: शक्यते । केन ? संस्कारोत्कर्षणेन इत्यर्थः । ___परिपूर्व० वृध् । वर्त० ते । 'व्यञ्जनाददन्ते' (४।२३९) अत् । अनेन र्धस्य ढः । 'अनादौ०' (२।८९) द्वित्वं-ढ्ढ० । 'द्वितीय-तुर्ययो०' (२।९०) पूर्वढस्य डः । 'त्यादीनामाद्य०' (३।१३९) ते० → इ० । 'क-ग-च-ज०' (१।१७७) व्लुक् परिअड्ढइ ।
लावण्य । प्रथमा सि । 'क-ग-च-ज०' (१।१७७) व्लुक् । 'अवर्णो यश्रुतिः' (१।१८०) अ० → य० । 'अधो मन-याम्' (२७८) यलुक् । 'अनादौ०' (२२८९) द्वित्वं-ण्ण० । 'क्लीबे०' (३६२५) सि० → म्० । 'मोऽनु०' (१९२३) अनुस्वारः लायण्णं ॥२२०॥ १. वड्ढइ पवअकलअलो वलइ वलंतवलआमुहो सलिलणिही । पवणणिराइअरुक्खा पयन्ति उद्धट्ठिओज्झरा धरणिहरा ॥
[से० ब०- ७।३६] वर्धते प्लवगकलकलो वलति वलमानवडवामुखः सलिलनिधिः । पवननिरायतवृक्षाः पतन्त्यूर्ध्वस्थितनिर्झरा धरणीधराः ॥