________________
६४२
प्राकृतव्याकरणस्य मूलसूत्राणि
णं नन्वर्थे ॥ ४।२८३ ॥ अम्महे हर्षे ॥ ४।२८४ ॥ हीही विदूषकस्य ॥ ४।२८५ ॥ शेषं प्राकृतवत् ॥ ४।२८६ ॥ अत एत्सौ पुंसि मागध्याम् ॥ ४।२८७ ॥ र-सोर्ल-शौ ॥ ४।२८८ ॥ स-षोः संयोगे सोऽग्रीष्मे ॥ ४।२८९ ॥ ट्ट-ष्ठयोः स्टः ॥ ४॥२९० ॥ स्थ-र्थयोस्स्तः ॥ ४॥२९१ ।। ज-द्य-यां यः ॥ ४/२९२ ॥ न्य-ण्य-ज्ञ- ञः ॥ ४।२९३ ॥ व्रजो जः ॥ ४।२९४ ॥ छस्य श्चोऽनादौ ॥ ४।२९५ ॥ क्षस्य - कः ॥ ४।२९६ ॥ स्कः प्रेक्षा-ऽऽचक्षोः ॥ ४।२९७ ।। तिष्ठश्चिष्ठः ॥ ४।२९८ ॥ अवर्णाद्वा ङसो डाहः ॥ ४।२९९ ।। आमो डाहँ वा ॥ ४।३०० ॥ अहं-वयमोर्हगे ।। ४।३०१ ॥ शेषं शौरसेनीवत् ॥ ४॥३०२ ।। ज्ञो ञः पैशाच्याम् ॥ ४॥३०३ ॥ राज्ञो वा चिञ् ॥ ४॥३०४ ॥ न्य-ण्योः ॥ ४।३०५ ॥ णो नः ॥ ४॥३०६ ॥ त-दोस्तः ॥ ४॥३०७ ॥ लो लः ॥ ४।३०८ ॥ श-षोः सः ॥ ४।३०९ ॥ हृदये यस्य पः ॥ ४॥३१० ॥ टोस्तुर्वा ॥ ४।३११ ॥ क्त्वस्तूनः ॥ ४॥३१२ ॥ खून-त्थूनौ ष्ट्वः ॥ ४।३१३ ॥ र्य-स्न-ष्टां रिय-सिन-सटाः क्वचित् ॥ ४।३१४ ॥ क्यस्येय्यः ॥ ४।३१५ ॥ कृगो डीरः ॥ ४।३१६ ॥ यादृशादेर्दुस्तिः ॥ ४॥३१७ ॥ इचेचः ॥ ४॥३१८ ॥
आत्तेश्च ॥ ४।३१९ ॥ भविष्यत्येय्य एव ॥ ४।३२० ॥ अतो ङसेर्डातो-डातू ॥ ४।३२१ ॥ तदिदमोष्टा नेन स्त्रियां तु नाए ॥ ४।३२२ ॥ शेषं शौरसेनीवत् ॥ ४।३२३ ॥ न क-ग-च-जादि-षट्-शम्यन्तसूत्रोक्तम् ॥ ४।३२४ ॥ चूलिकापैशाचिके तृतीय-तुर्ययोराद्य-द्वितीयौ ॥ ४।३२५ ॥ रस्य लो वा ॥ ४॥३२६ ॥ नादि-युज्योरन्येषाम् ॥ ४॥३२७ ॥ शेषं प्राग्वत् ॥ ४।३२८ ॥ स्वराणां स्वराः प्रायोऽपभ्रंशे ॥ ४।३२९ ॥ स्यादौ दीर्घ-हुस्वौ ॥ ४॥३३० ॥ स्यमोरस्योत् ॥ ४।३३१ ॥ सौ पुंस्योद्वा ।। ४।३३२ ॥ एट्टि ॥ ४॥३३३ ॥ ङिनेच्च ॥ ४॥३३४ ॥ भिस्येद्वा ।। ४।३३५ ॥ ङसेहे-हू ॥ ४।३३६ ॥ भ्यसो हुँ ॥ ४॥३३७ ॥ ङसः सु-हो-स्सवः ॥ ४॥३३८ ॥ आमो हं ॥ ४।३३९ ॥ हुं चेदुद्भ्याम् ॥ ४।३४० ॥ ङसि-भ्यस्-ङीनां हे-हुं-हयः ॥ ४॥३४१ ।। आट्टो णा-ऽनुस्वारौ ॥ ४॥३४२ ॥ एं चेदुतः ॥ ४॥३४३ ॥ स्यम्-जस्-शसां लुक् ॥ ४॥३४४ ॥ षष्ठ्याः ॥ ४॥३४५ ॥ आमन्त्र्ये जसो होः ॥ ४।३४६ ॥ भिस्सुपोहि ॥ ४॥३४७ ॥ स्त्रियां जस्-शसोरुदोत् ॥ ४॥३४८ ॥ ट ए ॥ ४॥३४९ ॥ ङस्-ङस्योर्हे ॥ ४।३५० ॥ भ्यसामोर्तुः ॥ ४॥३५१ ॥ डेहिः ॥ ४।३५२ ॥ क्लीबे जस्-शसोरिं ॥ ४॥३५३ ॥ कान्तस्याऽत उं स्यमोः ॥ ४॥३५४ ॥