________________
व्युत्पत्तिदीपिकाभिधान-ढुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ।
[कस-वट्टइ] कष-पट्टक । 'अ-डड-डुल्ला:०' (४।४२९) अप्र०- क्लुक् च । सप्तमी ङि । 'ङिनेच्च' (४।३३४) ङिना सह अस्य इ० । 'श-षोः सः' (१२२६०) ष० → स० । 'पो वः' (१२२३१) प० → व० कसवट्टइ।
[दिण्णी] दत्ता । 'जातेरयान्त-नित्यस्त्री०' (२०४५४) ङीप्र० । 'स्वराणां स्वराः प्रायो०' (४।३२९) द० → दि० । 'पञ्चाशत्-पञ्चदश-दत्ते' (२।४३) त्तस्य णः । 'अनादौ०' (२८९) द्वित्वं-ण० → ण्ण० दिण्णी ।
नायकः श्यामलः । प्रिया चम्पक-वर्णी । नाइ उत्प्रेक्ष्यते । कषपट्टके सुवर्ण-रेखा दत्ता इत्यर्थः । [ढोला ! मई तुहं वारिआ........]
अस्यार्थः - हे नायक ! मया त्वं वारितः, दीर्घ मानं मा कुरु, रात्रिनिद्रया गमिष्यति, दडवड इति शीघ्रं विभातं भविष्यतीत्यर्थः ॥
अथ व्युत्पत्तिः - [ढोल्ला !] ढोल्ला इति सम्बोधने सौ पूर्ववत् । ढोल्ला !। [ मई] अस्मद् । तृतीया टा । 'टा-ङ्यमा मई' (४।३७७) टाप्रत्यनेन सह अस्मद्स्थाने मई । [तुहुं] युष्मद् । प्रथमा सि । 'युष्मदः सौ तुहुं (४।३६८) युष्मद् → तुहुं । 'अन्त्यव्यञ्जनस्य' (१।११) स्लुक् तुहुँ।
[वारिआ] वारित । प्रथमा सि । अनेन दीर्घः - त० → ता० । 'क-ग-च-ज०' (१।१७७) त्लुक् । 'अन्त्यव्य०' (१।११) स्लुक् वारिआ ।
[मा] मा इति निषेधार्थः ।
[करु ] 'डुकंग करणे' (८८८) कृ । पञ्चमी हि । 'हि-स्वयोरिदुदेत्' (४।३८७) हि० → उ० । 'ऋवर्णस्याऽरः' (४।२३४) कृ० → कर० । 'लोकात्' (१।१।३) करु ।
[दीहा ] दीर्घ । द्वितीया अम् । 'स्यम्-जस्-शसां लुक् (४।३४४) अम्लुक् । अनेन दीर्घः - घ० → र्घा० । 'सर्वत्र ल-व-रामवन्द्रे' (२७९) लुक् । 'ख-घ-थ-ध-भाम्' (१।१८७) घा० → हा० दीहा ।
[माणु ] मान । द्वितीया अम् । 'स्यमोरस्योत्' (४।३३१) न० → नु० । 'स्यम्' (४।३४४) अम्लुक् । 'नो णः' (१।२२८) नु० → णु० माणु ।
[निद्दएँ] निद्रा । 'वाधो रो लुक् (४।३९८) लोपः । 'अनादौ०' (२१८९) द्वित्वं-दा० → दा० । तृतीया टा । 'ट ए' (४।३४९) टा० → ए० । अनेन हुस्वः-द्दा० → द्द० निद्दए ।
[गमिही ] 'गम्लं गतौ' (३९६) गम् । भविष्यन्ती स्यति । 'त्यादीनामा०' (३।१३९) स्यति० → इच् । 'भविष्यति हिरादिः' (३।१६६) हि आगमः । 'व्यञ्जना०' (४।२३९) अत् । 'लोकात्' (१।१।३) गमहिइ । 'एच्च क्त्वा-तुम्-तव्यः' (३।१५७) म० → मि० । एकपदेऽपि बहुलाधिकारात् 'पदयोः संधिर्वा' (१५) इति संधिः गमिही ।
[रत्तडी ] रात्रि[का] । 'स्वराणां स्वरा:०' (४।३२९) रा० → र० । 'वाधो रो लुक्' (४।३९८) लुक् । 'अ-डडडुल्ला:' (४।४२९) डडप्र० → अड०- कलुक् च । 'लुक्' (१।१०) इलोपः । 'लोकात्' (१।१।३) रतड० । 'स्त्रियां तदन्ताड्डी:' (४|४३१) डीप्र० । 'अनादौ०' (२८९) द्वित्वं-त० → त्त० । प्रथमा सि । 'स्यम्-जस्' (४।३४४) सिलुक् रत्तडी। .
[ दडवड] अवस्कन्द । शीघ्रादित्वात् अवस्कन्दस्य दडवड इति ।
[विहाणु] विभात । शीघ्रादित्वात् विभातस्य विहाण इति । प्रथमा सि । 'स्यमोरस्योत्' (४।३३१) ण० → णु० । 'स्यम्-जस्-शसां लुक् (४।३४४) सिलुक् विहाणु ॥१॥