________________
४२
व्युत्पत्तिदीपिकाभिधान-ढुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ॥
[पावयणं पवयणं] प्रवचन (२) । 'सर्वत्र०' (२७९) लुक् । अनेन वा दीर्घः - प० → पा० । 'क-ग-च-ज०' (१११७७) इति चलुक् । 'अवर्णो यश्रुतिः' (१११८०) अस्य यः । 'नो णः' (१।२२८) न० → ण । प्रथमा सि । 'क्लीबे स्वरान्म से:' (३।२५) सि० →म् । 'मोऽनुस्वारः' (१९२३) अनुस्वारः पावयणं पवयणं ।
[चाउरन्तं चउरन्तं] चतुरन्त (२) । अनेन वा च० → चा० । 'क-ग-च-ज०' (१।१७७) त्लुक् । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनुस्वारः' (११२३) अनुस्वारः चाउरन्तं चउरन्तं ॥४४॥
दक्षिणे हे ॥ ८।१।४५ ॥ दक्षिणशब्दे आदेरतो हे परे दीर्घो भवति ॥ दाहिणो । हे इति किम् ? दक्खिणो ॥ [दक्षिणे हे] दक्षिण सप्तमी ङि । ह सप्तमी ङि ।
[दाहिणो] दक्षिण | प्रथमा सि । 'दुःख-दक्षिण-तीर्थे वा' (२०७२) वा क्षि० → हि० । अनेन दीर्घः । 'अतः से?:' (३२) सि० → डो० → ओ० दाहिणो ।
[दक्खिणो] दक्षिण । प्रथमा सि । 'क्षः खः क्वचित्तु छ-झौ' (२।३) क्ष० → ख० । 'अनादौ०' (२।८९) खस्य द्वित्वम् । 'द्वितीय-तुर्य०' (२९०) पूर्वखस्य कः । 'अत: से?:' (३।२) सि० → डो० → ओ० दक्खिणो ॥४५॥
इः स्वप्नादौ ॥ ८।१।४६ ॥ स्वप्न इत्येवमादिषु आदेरस्य इत्वं भवति ॥
सिविणो सिमिणो । आर्षे उकारोऽपि-सुविणो सुमिणो । ईसि । वेडिसो । विलिअं। विअणं । मुइंगो । किविणो । उत्तिमो । मिरिअं । दिण्णं ॥
बहलाधिकाराण्णत्वाऽभावे न भवति - दत्तं । देवदत्तो ॥ स्वप्न । ईषत् । वेतस । व्यलीक । व्यजन । मृदङ्ग । कृपण । उत्तम । मरिच । दत्त इत्यादि । [इः स्वप्नादौ] इ प्रथमा सि । स्वप्नादि सप्तमी ङि ।
[सिविणो सिमिणो] स्वप्न । प्रथमा सि । 'सर्वत्र ल-व-रामवन्द्रे' (२७९) व्लुक् । अनेन अस्य इ. - स० → सि० । 'स्वप्ने नात्' (२।१०८) नात् प्रागिकारः । प्रथमे 'पो वः' (१।२३१) पि० → वि० । द्वितीये 'स्वप्न-नीव्योर्वा' (१।२५९) वस्य मः सिविणो सिमिणो ।
[सुविणो सुमिणो] स्वप्न । प्रथमा सि । आर्षत्वादुकारः । शेषं पूर्ववत् । सुविणो सुमिणो ।
[ईसि] ईषत् । 'श-षोः सः' (१।२६०) ष० → स० । 'अन्त्य०' (१।११) त्लुक् । अनेन स० → सि० । प्रथमा सि । 'अव्ययस्य' (३।२७) सिलुप् ईसि ।
[वेडिसो] वेतस । प्रथमा सि । अनेन त० → ति० । 'इत्वे वेतसे' (१।२०७) ति० → डि० । 'अत: से?:' (३२) सि० → डो० → ओ० वेडिसो ।
[विलिअं] व्यलीक । प्रथमा सि । 'अधो म-न-याम्' (२७८) यलुक् । अनेन व० → वि० । 'पानीयादिष्वित्' (१।१०१) ली० → लि० । 'क-ग-च-ज०' (१।१७७) क्लुक् । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनुस्वारः' (१९२३) अनुस्वारः विलिअं। १. A. सुविणो उदाहरणम् ।