________________
अष्टमाध्यायस्य प्रथमः पादः ॥
[पिओ त्ति ] प्रिय । प्रथमा सि । इति । 'सर्वत्र ल०' (२२७९) लुक् । 'क-ग-च-ज०' (१।१७७) य्लुक् । 'अत: से?:' (३२) सि० → डो० → ओ०। 'डित्यन्त्य०' (२।१।११४) अलुक् । अनेन इलुक्-तस्य द्वित्वं →त्ति० पिओ त्ति।
[पुरिसो त्ति ] पुरुष । प्रथमा सि । इति । 'पुरुषे रोः' (१।११) रु० → रि० । 'श-षोः सः' (१।२६०) षस्य सः । 'अत: से?:' (३२) सि० → डो० → ओ० । 'डित्यन्त्य०' (२।१२११४) अलुक् । अनेन इलुक् - तस्य द्वित्वं → त्ति० पुरिसो त्ति ।
'[इअ विज्झ-गहा-निलयाए तम्मि-दल-सबर-सिट्ठ-मग्गाए । .. पहुणा सपरिअरं भयवईए विहिओ नमोक्कारो' ॥१॥]
अस्यार्थः - इति-अमुना प्रकारेण । प्रभुणा-नृपेण । भगवत्या-पार्वत्याः । नमस्कारो विहितः सपरिकरमिति । किंविशिष्टायाः पार्वत्याः ? विन्ध्यगुहैव निलयो गृहं यस्याः सा = विन्ध्यगुहानिलया, तस्याः । क्व? तस्मिन्-पर्वते । पुनः किविशिष्टायाः ? दलं- सैन्यं, तस्य ये शबराः - भिल्लास्तैः शिष्टः कथितो मार्गो यस्याः सा इत्यर्थः । इति 'इतौ तो वाक्यादौ' (१९१) ति० → त० । 'क-ग-च-ज०' (१११७७) इति त्लुक् इअ । विन्ध्यगुफानिलया । षष्ठी ङस् । . 'साध्वस-ध्य-ह्यां झः' (२।२६) ध्यस्य झः । 'फो भ-हौ' (१।२३६) फा० → हा० । 'टा-ङस्-डेरदादि०' (३।२९) ङस्० → ए० विझगुहानिलयाए ॥४२॥
लुप्तय-र-व-श-ष-सां श-ष-सां दीर्घः ॥ ८।१।४३ ॥ प्राकृतलक्षणवशाल्लुप्ता याऽऽद्या उपरि अधो वा येषां शकार-षकार-सकाराणां तेषामादेः स्वरस्य दी? भवति ॥ श्यस्य यलोपे-पश्यति → पासइ । कश्यपः → कासवो । आवश्यकं → आवासयं ।। श्रस्य रलोपे - विश्राम्यति → वीसमइ । विश्रामः वीसामो । मिश्रम् → मीसं । संस्पर्शः → संफासं ॥ श्वस्य वलोपे-अश्वः → आसो । विश्वसिति → वीससइ । विश्वासः → वीसासो ॥ श्शस्य शलोपे-दुश्शासनः → दूसासणो । मनश्शिला → मणासिला ॥ ष्यस्य यलोपे-शिष्यः → सीसो । पुष्यः → पूसो । मनुष्यः → मणूसो ॥ प्रस्य रलोपे-कर्षक: → कासओ । वर्षः → वासो । वर्षाः → वासा ॥ ष्वस्य वलोपे-विष्वाणः → वीसाणो । विष्वक् → वीसुं । ष्षस्य षलोपे-निष्षिक्तः → नीसित्तो ।। स्यस्य यलोपे-सस्यम् → सासं । कस्यचित् → कासइ । स्रस्य रलोपे-उस्रः →ऊसो । विस्रम्मः → वीसम्भो ॥ स्वस्य वलोपे-विकस्वरः → विकासरो । "निस्वः →नीसो ॥ स्सस्य सलोपे-निस्सहः → नीसहो ।
१. [ग० व० - ३३८] २. पाठां- विज्झ । ३. णमक्कारो । इति विन्ध्यगुहानिलयायाः वस्त्रदलशबरशिष्टमार्गायाः । प्रभुणा सपरिकर भगवत्यै विहितो नमस्कारः ॥ ४. I. वीकासरो । ५. GK. निःस्वः ।