SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ ३९० व्युत्पत्तिदीपिकाभिधान-दुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ॥ _ 'वदुङ् स्तुत्यभिवादनयोः' (७२१) वद् । 'उदितः स्वरान्नोऽन्तः' (४।४।९८) वन्द् । वर्त० ए । 'लोकात्' (१।१।३) न्दे० वन्दे । [तिस्सा मुहस्स भरिमो] तद् । षष्ठी ङस् । 'अन्त्यव्य०' (१२११) द्लुक् । 'कि-यत्तदोस्यमामि' (३।३३) ङीप्र० । 'ईद्भ्यः स्सा-से' (३३६४) ङस्० → स्सा० । 'हूस्व: संयोगे' (१९८४) ती० → ति० तिस्सा । मुख । द्वितीया अम् । अनेन द्वितीयास्थाने षष्ठी । 'ङसः स्सः' (३।१०) ङस्० → स्स० । 'ख-घ-थ-ध-भाम्' (१।१८७) ख० → ह० मुहस्स ।। _ 'स्मं चिन्तायाम्' (१८) स्मृ । वर्त० मस् । 'स्मरेझर-झूर-भर-भल-लढ-विम्हर-सुमर-पयर-पम्हुहाः' (४७४) स्मृ० → भर० । 'तृतीयस्य मो-मु-माः' (३।१४४) मस्० → मो० । 'इच्च मो-मु-मे वा' (३१५५) इत्वम् भरिमो। __ [धणस्स लद्धो] धन । तृतीया टा । अनेन टास्थाने ङस् । 'ङसः स्सः' (३।१०) ङस्० → स्स० । 'नो णः' (१।२२८) न० → ण० धणस्स । लब्ध । प्रथमा सि । 'सर्वत्र ल०' (२७९) ब्लुक् । 'अनादौ०' (२८९) धस्य द्वित्वम् । 'द्वितीय-तुर्ययो०' (२।९०) पूर्वधस्य दः । 'अतः से?:' (३।२) सि० → डो० → ओ० लद्धो । [चिरस्स मुक्का] चिर । तृतीया टा । अनेन टास्थाने ङस् । 'ङसः स्सः' (३।१०) ङस् → स्स० चिरस्स । मुक्ता । 'शक्त-मुक्त-दष्ट-रुग्ण-मृदुत्वे को वा' (२।२) क्ता० → का० । 'अनादौ०' (२१८९) कस्य द्वित्वम् । प्रथमा सि । 'अन्त्यव्य०' (१।११) स्लुक् मुक्का । [तेसिमेअमणाइण्णं ] तद् । षष्ठी आम् । 'अन्त्यः' (१।११) द्लुक् । 'आमो डेसि' (३६१) आम्० → डेसिं० → एसिं० इति । 'डित्यन्त्य०' (२।१।११४) अलुक् । 'लोकात्' (१।१।३) तेसिं । एतद् । प्रथमा सि । 'अन्त्यव्य०' (१।११) द्लुक् । 'क-ग-च-ज०' (१।१७७) त्लुक् । 'क्लीबे स्वरान्म् से:' (३।२५) सि० → म्० । 'मोऽनु०' (१।२३) अनुस्वारः एअं। अनाचीर्णम् । 'क-ग-च-ज०' (१।१७७) चलुक् । 'हुस्वः संयोगे' (१९८४) ई० → इ० । 'सर्वत्र ल-व०' (२७९) रलुक् । 'नो णः' (१२२२८) ना० → णा० । 'अनादौ०' (२१८९) णस्य द्वित्वम् अणाइण्णं । चोरस्स बीहड़ ] चौर । पञ्चमी ङसि । अनेन ङसि० → स्स० । 'ङसः स्सः' (३।१०) ङस्० , स्स० । 'औत ओत्' (१।१५९) चौ० → चो० चोरस्स । ___"जिभीक् भये' (११३२) भी । वर्तः तिव् । 'भियो भा-बीहौ' (४।५३) भी० → बीह० इति । 'त्यादीनामाद्य०' (३६१३९) ति० → इ० बीहड़ । [इअराइं जाण लहुअक्खराइं पायन्तिमिल्लसहिआण] इतर । द्वितीया शस् । 'जस्-शस इ-ई-णय:०' (३।२६) शस्० → इं० - पूर्वस्य च दीर्घ; - र० → रा० । 'क-ग-च-ज०' (१।१७७) त्लुक् इअराई । १. संजमे सुट्ठिअप्पाणं, विप्पमुक्काण ताइणं । तेसिमेयमणाइण्णं, निग्गंथाण महेसिणं ॥ [द० वै०- खुड्डियायारकहा तृतीयेऽध्ययने गा० १] संयमे सुस्थितात्मभिः विप्रमुक्तैः तायिभिः । तैरेतदनाचरितं निर्ग्रन्थैः महर्षिभिः ॥ २. इअराइं जाण लहुअक्खराइं पाइंतिमेल्लसहिआण । संजोअपढमदीहरसबिंदुसविसग्गवण्णाण ॥ [वृ० जा० स०-१३] इतराणि जानीहि लध्वक्षराणि पादान्तिमकसहितेभ्यः । संयोगप्रथमदीर्घतरबिन्दुसविसर्गवर्णेभ्यः ॥
SR No.007101
Book TitleVyutpatti Dipikabhidhan Dhundikaya Samarthitam Siddha Hem Prakrit Vyakaranam Part 01
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2017
Total Pages442
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy