________________
अष्टमाध्यायस्य तृतीयः पादः॥
३८५
[गिरिस्स-गुरुस्स-दहिस्स-महुस्स] गिरि-गुरु-दधि-मधु । षष्ठी ङस् । 'ङसः स्सः' (३।१०) ङस् → स्स० । यथाप्राप्तौ 'ख-घ-थ-ध-भाम्' (१।१८७) धि० → हि० - धु० → हु० गिरिस्स-गुरुस्स-दहिस्स-महुस्स ।
[गिरिम्मि-गुरुम्मि-दहिम्मि-महुम्मि] गिरि-गुरु-दधि-मधु । सप्तमी ङि । 'डे-म्मि डे.' (३।११) ङि० → म्मि० । 'ख-घ-थ-ध-भाम्' (१।१८७) धि० → हि० - धु० → हु. गिरिम्मि-गुरुम्मि-दहिम्मि-महुम्मि ।
[गिरी-गुरू चिट्ठन्ति पेच्छ वा] गिरि-गुरु । प्रथमा जस्-द्वितीया शस् वा । 'जस्-शस्-ङसि०' (३।१२) दीर्घः - रि० → री० - रु० → रू० । 'जस्-शसोलुंक्' (३।४) जस्-शस्लुक् गिरी-गुरू । चिट्ठन्ति पूर्ववत् [३।२०] । पेच्छ पूर्ववत् [३।२८] ।
[गिरीओ-गुरूओ आगओ] गिरि-गुरु । पञ्चमी ङसि । 'ङसेस्त्तो-दो०' (३८) ङसि० → दो० । 'जस्-शस्-. ङसि०- त्तो०' (३।१२) दीर्घः-रि० → री० - रु० → रू० । 'क-ग-च-ज०' (१११७७) द्लुक् गिरीओ गुरूओ । आगओ पूर्ववत् [३।९७] ।
[गिरीण-गुरूण धणं] गिरि-गुरु । षष्ठी आम् । 'जस्-शस्-ङसि-त्तो-दो०' (३।१२) दीर्घः - रि० → री० - रु० → रू० । 'टा-आमोर्णः' (३६) आम्० → ण० गिरीण गुरूण । धणं पूर्ववत् ॥१२४॥
न दी? णो ॥ ८।३।१२५ ॥ इदुदन्तयोराज्जस्-शस्-ङस्यादेशे णो इत्यस्मिन् परतो दीर्घो न भवति । अग्गिणो । वाउणो ॥ णो इति किम् ? अग्गी । अग्गीओ ॥ [न दी| णो] न प्रथमा सि । दीर्घ प्रथमा सि । णो सप्तमी ङि ।
[अग्गिणो] अग्नि । प्रथमा जस्-द्वितीया शस्-पञ्चमी ङसि वा । 'अधो म-न-याम्' (२।७८) न्लुक् । 'अनादौ०' (२८९) गस्य द्वित्वम् । 'जस्-शस्-ङसि-ङसां णो' (३।५०) जस्-शस्-ङसि० →णो० अग्गियो ।
[वाउणो] वायु । प्रथमा जस्-द्वितीया शस्-पञ्चमी उसि वा । 'जस्-शस्-ङसि-ङसां णो' (३५०) जस्-शस्ङसि० → णो० । 'क-ग-च-ज०' (१२१७७) य्लुक् वाउणो ।
[अग्गी] अग्नि । प्रथमा जस्-द्वितीया शस् । 'अधो म-न-याम्' (२७८) ग्लुक् । 'अनादौ०' (२।८९) गस्य द्वित्वम् । 'जस्-शसोलुंक्' (३।४) जस्-शस्लुक् । 'जस्-शस्-ङसि०' (३।१२) दीर्घः - ग्गि० → ग्गी० अग्गी ।
[अग्गीओ] अग्नि । पञ्चमी ङसि । 'ङसेस्तो -दो-दु०' (३८) ङसि० → दो० । 'क-ग-च-ज०' (१।१७७) द्लुक् । 'जस्-शस्-ङसि०' (३।१२) दीर्घः । 'अधो म-न-याम्' (२।७८) न्लुक् । 'अनादौ०' (२।८९) गस्य द्वित्वम् अग्गीओ ॥१२५॥
डसेर्लुक् ॥ ८।३।१२६ ॥ आकारान्तादिभ्योऽदन्तवत्प्राप्तो ङसेलुंग न भवति ।। मालत्तो । मालाओ । मालाउ । मालाहिन्तो आगओ ॥ एवं - अग्गीओ । वाऊओ इत्यादि । [डसेर्लुक्] ङसि षष्ठी ङस् । लुक् प्रथमा सि ।