SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ ३५८ व्युत्पत्तिदीपिकाभिधान-ढुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ॥ [कीस] किम् । पञ्चमी ङसि । 'किम: कस्त्र०' (३७१) किम् →क । अनेन वा ङसि० →डीस० → ईस० इति । 'डित्यन्त्य०' (२२१२११४) अलुक् । 'लोकात्' (१।१।३) कीस । पक्षे [कम्हा] किम् । पञ्चमी ङसि । 'किमः कस्त्र०' (३७१) किम् →क० । 'ङसेहो' (३६६) ङसि० → म्हा० कम्हा ॥६८॥ इदमेतत्कि-यत्तद्भ्यष्टो डिणा ॥ ८।३।६९ ॥ एभ्य: सर्वादिभ्योऽकारान्तेभ्यः परस्याष्टायाः स्थाने डित् इणाऽऽदेशो वा भवति ॥ इमिणा इमेण । एदिणा एदेण । किणा केण । जिणा जेण । तिणा तेण ॥ [इदमेतत्कियत्तद्भ्यष्टो डिणा] इदमेतत्कियत्तद् पञ्चमी भ्यस् । (टा) षष्ठी ङस् । डिणा प्रथमा सि । [इमिणा इमेण] इदम् । तृतीया टा । 'इदम इमः' (३१७२) इदम् → इम० । अनेन वा टा० → डिणा० → इणा० इति । 'डित्यन्त्य०' (२।१।११४) अलुक् । 'लोकात्' (१।१।३) इमिणा । पक्षे- इम पूर्ववत् । तृतीया टा । 'टा-आमोर्णः' (३६) टा० → ण । 'टाण-शस्येत्' (३।१४) एत्त्वं - म० → मे० इमेण । [एदिणा एदेण] एतद् । तृतीया टा । 'अन्त्य०' (१२११) द्लुक् । 'तो दोनादौ शौरसेन्यामयुक्तस्य' (४।२६०) तस्य दः । अनेन वा टा० → डिणा० → इणा० इति । 'डित्यन्त्य०' (२।१।११४) अलुक् एदिणा । पक्षे- एतद् । तृतीया टा । 'अन्त्यव्य०' (१।११) द्लुक् । 'तो दोनादौ शौरसेन्या०' (४।२६०) तस्य दः । 'टाआमोर्णः' (३६) टा० →ण० । 'टाण-शस्येत्' (३।१४) एत्त्वं -द० → दे० एदेण । [किणा केण] किम् । तृतीया टा । 'किमः कस्त्र-तसोश्च' (३७१) किम् →क० । अनेन वा टा० → डिणा० → इणा० इति । 'डित्यन्त्य०' (२२१२११४) अलुक् किणा । पक्षे- किम् । तृतीया टा । 'किमः कस्त्र०' (३७१) किम क० । 'टा-आमोणः' (३६) टा० , ण । 'टाणशस्येत्' (३।१४) एत्त्वं - क० → के० केण । [जिणा जेण] यद् । तृतीया टा । 'अन्त्यव्य०' (११११) द्लुक् । 'आदेर्यो जः' (१२२४५) यस्य जः । अनेन वा टा० → डिणा० → इणा० इति । 'डित्यन्त्य०' (२।१।११४) अलुक् । 'लोकात्' (१।१३) जिणा। पक्षे- यद् । तृतीया टा । 'अन्त्यव्य०' (१।११) द्लुक् । 'आदेर्यो जः' (१२२४५) यस्य जः । 'टा-आमोणः' (३६) टा० →ण । 'टाण-शस्येत्' (३.१४) एत्त्वं - ज० → जे० जेण । [तिणा तेण] तद् । तृतीया टा । 'अन्त्यव्य०' (१२११) लुक् । अनेन वा टा० → डिणा० → इणा० इति । 'डित्यन्त्य०' (२।१।११४) अलुक् । 'लोकात्' (१।१।३) तिणा । पक्षे- तद् । तृतीया टा । 'अन्त्य०' (१।११) लुक् । 'टा-आमोर्णः' (३६) आम्० → ण । 'टाण-शस्येत्' (३।१४) एत्वं - त० → ते० तेण ॥६९।। तदो णः स्यादौ क्वचित् ॥ ८।३७० ॥ तदः स्थाने स्यादौ परे ण आदेशो भवति । क्वचिल्लक्ष्यानुसारेण ॥
SR No.007101
Book TitleVyutpatti Dipikabhidhan Dhundikaya Samarthitam Siddha Hem Prakrit Vyakaranam Part 01
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2017
Total Pages442
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy