________________
३५४
व्युत्पत्तिदीपिकाभिधान-दुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ॥
किं-तद्भ्यां डासः ॥ ८।३।६२ ॥ किं-तद्भ्यां परस्य आमः स्थाने डास इत्यादेशो वा भवति ॥ कास । तास । पक्षे-केसि । तेसि || [किं-तद्भ्यां डासः] किं-तद् पञ्चमी भ्याम् । डास प्रथमा सि ।
[कास केसि ] किम् । षष्ठी आम् । 'अन्त्यव्य०' (११११) मलुक् । अनेन वा आम्० → डास० → आस० इति । 'डित्यन्त्य०' (२२२११४) इलुक् । 'लोकात्' (१।१३) कास० कास । पक्षे- 'आमो डेसि' (३६१) आम्० → डेसिं० → एसिं० इति । 'डित्यन्त्य०' (२।१।११४) इलुक् । 'लोकात्' (११३) केसिं० केसि ।
[तास तेर्सि] तद् । षष्ठी आम् । 'अन्त्यव्य०' (१।११) लुक् । अनेन वा आम्० → डा० → आस० इति । 'डित्यन्त्य०' (२।१।११४) अलुक् । 'लोकात्' (२१।३) तास० तास । पक्षे - तद् । षष्ठी आम् । 'आमो डेसि' (३६१) आम्० → डेसिं० → एसिं० इति । 'डित्यन्त्य०' (२।१२११४) अलुक् । 'लोकात्' (१२१२३) तेसिं० तेसिं ॥६॥
किं-यत्तद्भ्यो डसः ॥ ८॥३।६३ ॥ . एभ्यः परस्य ङसः स्थाने डास इत्यादेशो वा भवति ॥ 'ङसः स्सः' (३।१०) इत्यस्यापवादः । पक्षे सोऽपि भवति ॥
कास कस्स । जास जस्स । तास तस्स ॥
बहुलाधिकारात् किं-तद्भ्यामाकारान्ताभ्यामपि डासादेशो वा । कस्या धनम् → कास धणं । तस्या धनम् → तास धणं। पक्षे - काए । जाए । ताए ।
[किं-यत्तद्भ्यो उसः] कि-यत्तद् पञ्चमी भ्यस् । ङस् षष्ठी ङस् ।
[कास कस्स ] किम् (२) । षष्ठी ङस् । 'अन्त्यव्य०' (१।११) मुलुक् । अनेन वा ङस्० → डास० → आस० इति । 'डित्यन्त्य०' (२२१२११४) इलुक् । 'लोकात्' (१।१३) कास० कास । पक्षे - किम् । षष्ठी ङस् । 'किम: कस्त्रतसोश्च' (३७१) किम्० → क० । 'ङसः स्सः' (३।१०) ङस् → स्स० कस्स।
[जास जस्स] यद् (२) । षष्ठी ङस् । 'आदेर्यो जः' (१।२४५) य० → ज० । 'अन्त्य०' (२११) द्लुक् । अनेन वा ङस्० → डास० → आस० इति । 'डित्यन्त्य०' (२।१।११४) अलुक् । 'लोकात्' (१।१।३) जास० जास । पक्षे - यद् । षष्ठी ङस् । 'आदेर्यो जः' (१।२४५) य० → ज० । 'अन्त्यव्य०' (१।११) द्लुक् । 'ङसः स्सः' (३३१०) ङस्० → स्स० जस्स ।
[तास तस्स ] तद् (२) । षष्ठी ङस् । 'अन्त्यव्य०' (श११) लुक् । अनेन वा ङस् → डास० → आस० इति । 'डित्यन्त्य०' (२।१।११४) अलुक् । 'लोकात्' (१।१।३) तास० तास । पक्षे - तद् । षष्ठी ङस् । 'ङसः स्सः' (३।१०) ङस्० → स्स० तस्स ।
[कास धणं] किम् । षष्ठी डस् । 'अन्त्य०' (१२११) म्लुक् । 'लुक्' (१।१०) इकारलुक्। 'आत्' (२।४।१८) आप्प्र० → आ । 'लोकात्' (१।१।३) का इति जाते बाहुलकात् आकारान्तादपि डस्० → डास० → आस० इति । 'डित्यन्त्यस्वरादेः' (२।१११४) आलुक् । 'लोकात्' (१।११३) कास० कास । धनं । 'नो णः' (१२२२८) नं० →णं० धणं ।
- [तास धणं] तद् । षष्ठी ङस् । 'अन्त्यव्यः' (१।११) द्लुक् । 'आत्' (२।४।१८) आप्प्र० → आ । 'लोकात्' (१।१।३) ता इति जाते बाहुलकात् आकारान्तादपि ङस्० → डास० → आस० इति । 'डित्यन्त्य०' (२।१२११४) आलुक् । . 'लोकात्' (१।१।३) तास० तास । धणं पूर्ववत् । पक्षे -