________________
३४६
व्युत्पत्तिदीपिकाभिधान-दुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ॥
[अप्या] आत्मन् । पञ्चमी ङसि । 'हुस्व: संयोगे' (१९८४) आ० → अ० । 'भस्मा-ऽऽत्मनो:०' (२।५१) त्म० → प० । 'अनादौ०' (२।८९) पस्य द्वित्वं - प० → प्प० । 'ङसेस्तो -दो-दु०' (३।८) ङसिलुक् । 'जस्-शस्-ङसि०' (३।१२) दीर्घः - प्प० → प्पा० अप्पा ।
[अप्पासुन्तो] आत्मन् । अप्पा पूर्ववत् । पञ्चमी भ्यस् । 'भ्यसस्तो-दो-दु-हि-हिन्तो-सुन्तो' (३९) भ्यस्० → सुन्तो० अप्पासुन्तो।
[अप्पणो धणं] आत्मन् । अप्प पूर्ववत् । षष्ठी ङस् । 'जस्-शस्-ङसि-ङसां णो' (३।५०) ङस्० → णो० अप्पणो । धनं । 'नो णः' (१।२२८) नं० → णं० धणं ।
[अप्पाणं] आत्मन् । षष्ठी आम् । 'हुस्वः संयोगे' (१९८४) आ० → अ० । 'भस्मा-ऽऽत्मनो:०' (२५१) त्म० → प० । 'अनादौ०' (२।८९) पस्य द्वित्वं - प० → प्प० । 'टा-आमोर्णः' (३६) आम्० → ण । 'जस्-शस्-ङसि०' (३।१२) दीर्घः - प्प० → प्पा० । 'क्त्वा-स्यादेर्ण-स्वोर्वा' (१।२७) अनुस्वारः अप्पाणं ।
[अप्पे अप्पम्मि] अप्प (२) । सप्तमी ङि । 'डे-म्मि उ:' (३।११) ङि० → डे० → ए० । 'डित्यन्त्य०' (२।१।११४) अलुक् अप्पे । पक्षे - ङि० →म्मि० अप्पम्मि।
[अप्पेसु] अप्प । सप्तमी सुप् । 'भिस्-भ्यस्-सुपि' (३।१५) एत्त्वं - प्प० → प्पे० अप्पेसु ।
[रायाणो] राजन् । प्रथमा सि । 'क-ग-च-ज०' (१।१७७) जलुक् । 'अवर्णो यश्रुतिः' (१।१८०) अ० → य० । अनेन वा अन्० → आण० । 'लोकात्' (१।१।३) रायाण । 'अत: सेर्डोः' (३२) सि० → डो० → ओ० । 'डित्यन्त्य०' (२२१२११४) अलुक् रायाणो ।
[रायाणा] राजन् । प्रथमा जस् । 'क-ग-च-ज०' (१।१७७) ज्लुक् । 'अवर्णो०' (१।१८०) अ० → य० । अनेन वा अन्० → आण० । 'लोकात्' (१।१।३) रायाण । 'जस्-शस्-ङसि-त्तो-दो०' (३।१२) दीर्घः रायाणा ।
[रायाणं] रायाण पूर्ववत् । द्वितीया अम् । 'अमोऽस्य' (३५) अलुक् अम्० → म्० । 'मोऽनु०' (१२२३) अनुस्वारः रायाणं ।
[रायाणे] रायाण पूर्ववत् । द्वितीया शस् । 'टाण-शस्येत्' (३।१४) एत्त्वं - ण० →णे० । 'जस्-शसोलुंक्' (३।४) शस्लुक् रायाणे।
[रायाणेण] रायाण पूर्ववत् । तृतीया टा । 'टा-आमोणः' (३६) टा० → ण० । 'टाण-शस्येत्' (३।१४) एत्त्वं - ण० →णे० रायाणेण ।
[रायाणेहिं] रायाण पूर्ववत् । तृतीया भिस् । 'भिसो हि-हिँ-हिं' (३७) भिस्० → हिं० । 'भिस्-भ्यस्-सुपि' (३।१५) एत्त्वं - ण → णे० रायाणेहिं । __ [रायाणाहिन्तो] रायाण पूर्ववत् । पञ्चमी ङसि - पञ्चमी भ्यस् । 'ङसेस्त्तो-दो-दु०' (३८) ङसि० → हिन्तो० । 'भ्यसस्तो-दो-दु०' (३९) भ्यस्० → हिन्तो० । 'जस्-शस्-ङसि-त्तो०' (३।१२) दीर्घः - ण० → णा० रायाणाहिन्तो।
[रायाणस्स ] रायाण पूर्ववत् । षष्ठी ङस् । 'ङसः स्स:' (३।१०) ङस्० → स्स० रायाणस्स ।
[रायाणाणं] रायाण पूर्ववत् । षष्ठी आम् । 'टा-आमोर्णः' (३।६) आम्० → ण । 'जस्-शस्-ङसि-तो०' (३।१२) दीर्घः - ण० → णा० । 'क्त्वा-स्यादेर्ण-स्वोर्वा' (१।२७) अनुस्वारः रायाणाणं ।