________________
२७२
व्युत्पत्तिदीपिकाभिधान-ढुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ।
[छिछि धिद्धी ] धिक् धिक् । अनेन छि छि अथवा धिद्धी इति निपातः । छि छि धिद्धी ।
[धिरत्थ ] धिगस्तु । अनेन गस्य "र" वा इति निपातः । 'स्तस्य थोऽसमस्त-स्तम्बे' (२०४५) स्तु० → थु० । 'अनादौ०' (२।८९) थस्य द्वित्वम् । 'द्वितीय-तुर्ययो०' (२।९०) पूर्वथस्य तः । प्रथमा सि । 'अव्ययस्य' (३।२७) सिलुप् धिरत्थु धिगत्थु ।
[पडिसिद्धी पाडिसिद्धी] प्रतिस्पर्धा - प्रतिसिद्धि । 'सर्वत्र ल-व०' (२१७९) लुक् । 'अतः समृद्ध्यादौ वा' (१।४४) प० → पा० । 'प्रत्यादौ डः' (१।२०६) ति० → डि० । अनेन पडिसिद्धी पाडिसिद्धी निपातः । पडिसिद्धी पाडिसिद्धी ।
[चच्चिक्वं] स्थासक । अनेन निपातः । चच्चिक्कं ।
[निहेलणं] निलयः । अनेन निहेलणं निपातः । निहेलणं । [मघोणो] मघवान् । अनेन मघोणो निपातः । मघोणो ।
[सक्खिणो] साक्षिन् । 'हुस्वः संयोगे' (१९८४) सा० → स० । 'क्षः खः क्वचित्तु०' (२२३) क्षस्य खः । 'अनादौ०' (२।८९) खस्य द्वित्वम् । 'द्वितीय-तुर्ययो०' (२।९०) पूर्वखस्य कः । अनेन णकारनिपातः । प्रथमा सि । सक्खिणो।
[जम्मणं] जन्मन् । 'न्मो म:' (२०६१) न्मस्य मः । 'अनादौ०' (२१८९) मस्य द्वित्वम् । अनेन न० → ण० निपातः । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म् । 'मोऽनु०' (१।२३) अनुस्वारः जम्मणं ।
[महन्तो ] महान् । 'हुस्वः संयोगे' (१८४) हा० → ह० (?) । अनेन महन्त निपातः । प्रथमा सि । 'अतः से?:' (३।२) सि० → डो० → ओ० महन्तो ।
[भवन्तो] भवान् । 'हस्व: संयोगे' (१।८४) वा० → व० (?) । शेषं निपातः । प्रथमा सि । 'अतः सेझैः' (३२) सि० → डो० → ओ० भवन्तो।
[आसीसा] 'आशिष् । 'श-षोः सः' (१।२६०) शि० → सि० । प्रथमा सि । 'अक्लीबे सौ' (३।१९) दीर्घः । 'अन्त्यव्य०' (१।११) स्लुक् । शेषमनेन निपातः । आसीसा ।
क्वचित् हस्य ड्डकारो भश्च भवति ।
[वड्डयरं] बृहत्तर । 'ऋतोऽत्' (१।१२६) बृ० → ब० । अनया हस्य ड्ड० निपातः । 'क-ग-ट-ड०' (२७७) त्लुक् । 'क-ग-च-ज०' (१।१७७) त्लुक् । 'अवर्णो यश्रुतिः' (१।१८०) अ० → य० । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१९२३) अनुस्वारः वड्डयरं ।
[भिमोरो] हिमस्य उरोमध्यं = हिमोरः । अनया हि० → भि० निपातः । 'स्नमदाम-शिरो-नभः' (१९३२) इति पुंस्त्वम् । प्रथमा सि । 'अतः से?ः' (३२) सि० → डो० → ओ० भिमोरो ।
क्वचित् लस्य डो निपात्यते ।
१. L. आशिस् ।