________________
२६२
व्युत्पत्तिदीपिकाभिधान-दुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ।
केचित्तु मतुस्थाने मा इत्यादेशमिच्छन्ति, तन्मते हणुमा इति रूपम् ।
[धणी] धनिन् । 'नो णः' (१२२८) नस्य णः । 'अन्त्य०' (११११) ग्लुक् । प्रथमा सि । 'अक्लीबे सौ' (३।१९) दीर्घः । 'अन्त्यव्य०' (१।११) स्लुक् धणी।
[अत्थिओ] अर्थ । 'अर्थोऽस्याऽस्तीति अर्थिकः । 'अतोऽनेकस्वरात्' (७२।६) इकप्र० । 'लुक् (१।१०) अलोपः । 'लोकात्' (१।१३) अर्थिक । 'सर्वत्र०' (२१७९) लुक् । 'अनादौ०' (२१८९) थस्य द्वित्वम् । 'द्वितीय-तुर्ययो०' (२।९०) पूर्वथस्य तः । 'क-ग-च-ज०' (१।१७७) क्लुक् । प्रथमा सि । 'अतः से?:' (३२) सि० → डो० → ओ० अत्थिओ ॥१५९।।
त्तो-दो तसो वा ॥ ८।२।१६० ॥ तस: प्रत्ययस्य स्थाने त्तो-दो इत्यादेशौ वा भवतः ॥
सव्वत्तो सव्वदो । एकत्तो एकदो । अन्नत्तो अन्नदो । कत्तो कदो । जत्तो जदो । तत्तो तदो । इत्तो इदो । पक्षे-सव्वओ इत्यादि ।
[त्तोदो] त्तोश्च दोश्च = त्तोदो । प्रथमा औ । सूत्रत्वाद् औलुक् । [तसो वा] तस् षष्ठी ङस् । वा प्रथमा सि ।
[सव्वत्तो सव्वदो] सर्वत: (२) । 'सर्वत्र ल-व-रामवन्द्रे' (२७९) लुक् । 'अनादौ०' (२।८९) वस्य द्वित्वम् । अनेन वा तस्० → त्तो० - दो० सव्वत्तो सव्वदो ।
[एकत्तो एकदो] एकतः (२) । 'अनादौ स्वरादसंयुक्तानां क-ख-त-थ-प-फां ग-घ-द-ध-ब-भाः' (४।३९६) कस्य गः । अनेन वा तस्० → त्तो० - दो० एगत्तो एगदो एकत्तो एकदो । एकस्य को गो वा इति वा कस्य गः । __ [अन्नत्तो अन्नदो ] अन्यतः (२) । 'अधो म-न-याम्' (२७८) य्लुक् । 'अनादौ०' (२२८९) नस्य द्वित्वम् । अनेन वा तस्० → त्तो० - दो० अन्नत्तो अन्नदो।
[कत्तो कदो] किम् (२) । 'किमद्व्यादिसर्वाद्यवैपुल्यबहो:०' (७।२।८९) पित् तस्प्र० । 'किम: कस्त्रतसोश्च' (३७१) किम् → कः । अनेन वा तस्० → तो० - दो० कत्तो कदो।
[जत्तो जदो] यतः (२) । 'आदेर्यो जः' (१।२४५) यस्य जः । अनेन वा तस्० → त्तो० - दो० जत्तो जदो । [तत्तो तदो] ततः (२) । अनेन वा तस्० → तो० - दो० तत्तो तदो । [इत्तो इदो] इतः । अनेन वा तस्० → त्तो० - दो० इत्तो इदो ॥१६०॥
त्रपो हि-ह-स्थाः ॥ ८।२।१६१ ॥ त्रप्प्रत्ययस्य एते भवन्ति ।। यत्र - जहि जह जत्थ । तत्र - तहि तह तत्थ । कुत्र - कहि कह कत्थ । अन्यत्र - अन्नहि अन्नह अन्नथ ॥ [त्रपो हिहत्थाः ] त्रप् षष्ठी ङस् । हिश्च हश्च स्थश्च = हिहत्थाः । प्रथमा जस् ।
१. B. C. E. एगत्तो एगदो । A. एगत्तो एगदो एकत्तो एकदो उदाहरणानि ।