________________
अष्टमाध्यायस्य द्वितीयः पादः ॥
[ पिलोसो ] प्लोष । प्-लो इति विश्लेषे अनेन लोपूर्वं इ० । 'लोकात् ' (१।१।३) पिलोष | 'श-षोः सः' (१२६०) षस्य सः । प्रथमा सि । 'अतः सेर्डो:' (३२) सि० डो० ओ० पिलोसो ।
२३५
[ सिलिम्हो ] श्लेष्मन् । 'अन्त्यव्य ० ' (१।११) न्लुक् । 'पक्ष्म-श्म-ष्म०' (२|७४) ष्मस्म म्हः । 'ह्रस्वः संयोगे ' (११८४) श्ले० → श्लि० । श्- लि इति विश्लेषे लिपूर्वं इ० । 'लोकात् ' (१|१|३) शिलिम्ह । 'श-षोः सः ' (१।२६०) शस्य सः । प्रथमा सि । 'अतः सेर्डो:' (३२) सि० डो० ओ० सिलिम्हो ।
[ सिलेसो ] श्लेष । श्-ले इति विश्लेषे अनेन लेपूर्वं इ० । 'लोकात् ' (१।१।३) शिलेष । 'श - षोः सः' (१।२६०) श-षयोः सः । प्रथमा सि । 'अतः सेर्डो:' (३२) सि० डो० ओ० सिलेसो ।
[सुक्किलं ] शुक्ल । 'श-षोः सः ' (१।२६०) शस्य सः । क् ल इति विश्लेषे अनेन लपूर्वं इ० । (१|१|३) सुकिल । 'सेवादौ वा' (२९९) द्वित्वं कि०क्कि० । प्रथमा सि । 'क्लीबे० ' ( ३।२५) सि०
'मोऽनु० ' (१।२३) अनुस्वारः सुक्किलं ।
द्वित्वं विकल्पत्वात् सुइलं । उभयोः 'अनादौ० ' (२।८९) वा द्वित्वं ल्ल० । शेषं पूर्ववत् । सुक्किल्लं सुइल्लं ।
[ सुइलं ] शुक्ल । 'श-षोः सः ' (१।२६० ) शु०सु० । क् ल इति विश्लेषे अनेन लपूर्वं इ० । 'लोकात् ' (१।१।३) कि० । ‘क-ग-च-ज०' (१।१७७) क्लुक् । प्रथमा सि । 'क्लीबे० ' ( ३।२५) सि० म्० । 'मोऽनु०' (१।२३) अनुस्वारः सुइलं ।
'लोकात् ' म्० ।
[ सिलोओ ] श्लोक । श्-लो इति विश्लेषे अनेन लोपूर्वं इ० । 'लोकात् ' (१|१|३) शि० । 'श-षोः सः' (१।२६०) शस्य सः । ‘क-ग-च-ज०' (१।१७७) क्लुक् । प्रथमा सि । 'अतः सेर्डो:' (३२) सि० डो० ओ० सिलोओ।
[ किलेसो ] क्लेश । क्-ले इति विश्लेषे अनेन लेपूर्वं इ० । 'लोकात् ' (१|१|३) कि० । 'श-षोः सः' (१।२६०) शस्य सः । प्रथमा सि । 'अतः सेर्डो:' (३२) सि० डो० ओ० किलेसो ।
[ अम्बिलं ] अम्ल । म्-ल इति विश्लेषे अनेन लपूर्वं इ० । 'लोकात्' (१|१|३) मि० । 'व्यत्ययश्च' (४४४७) न्यायात् 'मोऽनुनासिको वो वा' (४।३९७) इति मात् अधो वकार आनीयते । ब-वयोरैक्यं ज्ञेयम् । प्रथमा सि । 'क्लीबे० ' (३।२५) सि० म्० । 'मोऽनु० ' (१।२३) अनुस्वारः अम्बिलं ।
I
[ गिलाइ ] 'ग्लैं हर्षक्षये' (३१) ग्लै । वर्त्त० तिव् । 'स्वराणां स्वरा:' ( ४।२३८) ग्ला । ग्-ला इति विश्लेषे अनेन लात् पूर्वं इ० । 'लोकात् ' (१|१|३) गि० । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इ० गिलाइ ।
[ गिलाणं ] ग्लान । ग्-ला इति विश्लेषे अनेन लात् पूर्वं इ० । 'लोकात् ' (१।१।३) गि० । 'नो णः' (१।२२८) न० → ण० । प्रथमा सि । 'क्लीबे० ' ( ३।२५) सि०म्० । 'मोऽनु० ' (१।२३) अनुस्वारः गिलाणं ।
[मिलाइ ] म्लैं गात्रविनामे' (३२) म्लै । 'स्वराणां स्वराः' (४।२३८) म्ला । वर्त्त० तिव् । म्-ला इति विश्लेषे अनेन लात्पूर्वं इ० । 'लोकात् ' (१|१|३) मि० । 'त्यादीनामाद्य०' (३|१३९) तिव्० → इ० मिलाइ ।
[ मिलाणं ] म्लान । म्-ला इति विश्लेषे अनेन लात्पूर्वं इ० । 'लोकात् ' (१।१।३) मि० । 'नो णः' (१।२२८) न० → ण० । प्रथमा सि । 'क्लीबे० ' ( ३।२५) सि० म्० । 'मोऽनु० ' (१।२३) अनुस्वारः मिलाणं ।
1
[ किलम्मइ ] 'क्लमूच् ग्लानौ' (१२३७) क्लम् । वर्त्त० तिव् । 'व्यञ्जनाददन्ते' (४।२३९) अत् । 'लोकात्' (१|१|३) क्लम० । क्-ल इति विश्लेषे अनेन लपूर्वं इ० । 'लोकात्' (१।१।३) कि० । 'शकादीनां द्वित्वम्' (४।२३०) म० → म्म० । 'त्यादीनामाद्य०' (३|१३९) तिव्० इ० किलम्मइ ।