________________
१९४
व्युत्पत्तिदीपिकाभिधान-दुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ।
पञ्चाशत्-पञ्चदश-दत्ते ॥ ८।२।४३ ॥ एषु संयुक्तस्य णो भवति । पण्णासा । पण्णरह । दिण्णं ॥
[पञ्चाशत्पञ्चदशदत्ते] पञ्चाशच्च पञ्चदश च दत्तश्च = पञ्चाशत्पञ्चदशदत्तम्, तस्मिन् = पञ्चाशत्पञ्चदशदत्ते । सप्तमी ङि ।
[पण्णासा] पञ्चाशत् । प्रथमा सि । अनेन चस्य णः । 'अनादौ०' (२१८९) णस्य द्वित्वम् । 'श-षोः सः' (१।२६०) श० → स० । 'स्त्रियामादविद्युतः' (१।१५) त्० → आ० । 'अन्त्यव्य०' (११११) स्लुक् पण्णासा ।
[पण्णरह] पञ्चदश । अनेन ञ्चस्य णः । 'अनादौ०' (२।८९) णस्य द्वित्वम् । 'संख्या - गद्गदे र:' (१२२१९) दस्य रः । 'दश - पाषाणे हः' (१।२६२) शस्य हः । प्रथमा जस् । 'जस्-शसोलुंक्' (३।४) जस् लुक् पण्णरह ।
[दिण्णं] दत्त । 'इ: स्वप्नादौ' (१।४६) द० → दि० । अनेन त्तस्य णः । 'अनादौ०' (२८९) णस्य द्वित्वम् । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१९२३) अनुस्वारः दिण्णं ॥४३॥
मन्यौ न्तो वा ॥ ८॥२॥४४॥ मन्युशब्दे संयुक्तस्य न्तो वा भवति ॥ मन्तू मन्नू ।। [मन्यौ न्तो वा] मन्यु सप्तमी ङि । न्त प्रथमा सि । वा प्रथमा सि ।
[मन्तू मन्नू] मन्यु । प्रथमा सि । अनेन न्यस्य न्तः । 'अक्लीबे सौ' (३.१९) दीर्घः । 'अन्त्यव्य०' (१।११) स्लुक् मन्तू । पक्षे-मन्यु । 'अधो म-न-याम्' (२।७८) यलुक् । 'अनादौ शेषाऽऽदेशयोर्द्वित्वम्' (२।८९) नस्य द्वित्वम् । 'अक्लीबे सौ' (३३१९) दीर्घः । 'अन्त्यव्य०' (१।११) स्लुक् मन्नू इति सिद्धम् ॥४४॥
स्तस्य थोऽसमस्त-स्तम्बे ॥ ८।२।४५ ॥ समस्त-स्तम्बवजिते स्तस्य थो भवति ॥ हत्थो । थुई । थोत्तं । थोअं। पत्थरो । पसत्थो । अत्थि । सत्थि ॥ असमस्तस्तम्ब इति किम् ? समत्तो । तम्बो ॥ [स्तस्य] स्त षष्ठी ङस् ।
[थोऽसमस्तस्तम्बे] थ प्रथमा सि । समस्तश्च स्तम्बश्च = समस्तस्तम्बम्, न समस्तस्तम्बम् = असमस्तस्तम्बम्, तस्मिन् = असमस्तस्तम्बे । सप्तमी ङि ।
[हत्थो] हस्त । अनेन स्तस्य थः । 'अनादौ०' (२२८९) थस्य द्वित्वम् । 'द्वितीय - तुर्ययो०' (२९०) पूर्वथस्य तः। प्रथमा सि । 'अत: से?:' (३२) सि० → डो० → ओ० हत्थो ।
[थुई ] स्तुति । अनेन स्तस्य थः । 'क-ग-च-ज०' (१।१७७) तलुक् । प्रथमा सि । 'अक्लीबे सौ' (३।१९) दीर्घः। 'अन्त्यव्य०' (११११) स्लुक् थुई।
[थोत्तं] स्तोत्र । अनेन स्तस्य थः । 'सर्वत्र०' (२।७९) लुक् । 'अनादौ०' (२।८९) तस्य द्वित्वम् । प्रथमा सि । 'क्लीबे०' (३६२५) सि० → म्० । 'मोऽनु०' (१९२३) अनुस्वारः थोत्तं ।
[थोअं] स्तोक । अनेन स्तस्य थः । 'क-ग-च-ज०' (१।१७७) क्लुक् । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (२२३) अनुस्वारः थोअं ।