________________
१८८
व्युत्पत्तिदीपिकाभिधान-ढुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ।
[अट्ठी ] अस्थि । प्रथमा सि । अनेन स्थि० → ठि० । 'अनादौ०' (२।८९) ठस्य द्वित्वम् । “द्वितीय - तुर्ययो०' (२।९०) पूर्वठस्य टः । 'स्नमदाम - शिरो - नभः' (११३२) इति पुंस्त्वम् । 'अक्लीबे सौ' (३।१९) दीर्घः । 'अन्त्यव्य०' (१।११) स्लुक् अट्ठी ।
[विसंठुलं] विसंस्थुल । अनेन स्थस्य ठः । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१२२३) अनुस्वारः विसंतुलं ॥३२॥
स्त्यान - चतुर्था-ऽर्थे वा ॥ ८॥३३॥ एषु संयुक्तस्य ठो वा भवति ॥ ठीणं थीणं । चउट्ठो चउत्थो । अट्ठो प्रयोजनम् । अत्थो धनम् ॥
[स्त्यानचतुर्थाऽर्थे वा] स्त्यानं च चतुर्थं च अर्थश्च = स्त्यानचतुर्थाऽर्थम्, तस्मिन् = स्त्यानचतुर्थाऽर्थे । सप्तमी ङि। वा प्रथमा सि ।
[ठीणं थीणं] स्त्यान । 'ई: स्त्यान - खल्वाटे' (११७४) स्त्या० → स्त्यी० । अनेन वा स्त्यी० → ठी० । 'नो णः' (१।२२८) न० → ण० । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१।२३) अनुस्वारः ठीणं । पक्षे-स्त्यान । 'ई: स्त्यान०' (१७४) स्त्या० → स्त्यी० । 'अधो म-न-याम्' (२।७८) यलुक् । 'स्तस्य थोऽसमस्तस्तम्बे' (२।४५) स्ती० → थी० । 'नो णः' (१।२२८) न० →ण० । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१२२३) अनुस्वारः थीणं ।
[चउडो चउत्थो] चतुर्थ । 'क-ग-च-ज०' (१२१७७) त्लुक् । अनेन वा र्थस्य ठः । 'अनादौ०' (२१८९) ठस्य द्वित्वम् । 'द्वितीय - तुर्ययो०' (२।९०) पूर्वठस्य टः । प्रथमा सि । 'अतः से?ः' (३।२) सि० → डो० → ओ० चउडो । पक्षे - चतुर्थ । 'क-ग-च-ज०' (१।१७७) त्लुक् । 'सर्वत्र०' (२७९) लुक् । 'अनादौ०' (२७९) थस्य द्वित्वम् । 'द्वितीय - तुर्ययो०' (२२९०) पूर्वथस्य तः । प्रथमा सि। 'अतः से?:' (३।२) सि० → डो० → ओ० चउत्थो ।
[अट्ठो प्रयोजनम्, अत्थो धनम् ] अर्थ । प्रथमा सि । अनेन वा र्थस्य ठः । 'अनादौ०' (२।८९) ठस्य द्वित्वम् । • 'द्वितीय - तुर्ययो०' (२।९०) पूर्वठस्य टः । प्रथमा सि । 'अत: सेझैः' (३।२) सि० → डो० → ओ० अट्ठो ।
अत्रार्थशब्देन प्रयोजनम् । यदा धनमुच्यते तदा ठो न स्यात् । अर्थ । प्रथमा सि । 'सर्वत्र०' (२१७९) लुक् । 'अनादौ०' (२१८९) थस्य द्वित्वम् । 'द्वितीय - तुर्ययो०' (२।९०) पूर्वथस्य तः । 'अतः से?:' (३२) सि० → डो० → ओ० अत्यो ॥३३॥
ष्टस्याऽनुष्ट्रेष्टा संदष्टे ॥ ८।२।३४ ॥ उष्ट्रादिवजिते ष्टस्य ठो भवति ॥
लट्ठी । मुट्ठी । दिट्ठी । सिट्ठी । पुट्ठो । कटुं । सुरट्ठा । इट्ठो । अणिटुं ॥ अनुष्ट्रेष्टासंदष्ट इति किम् ? उट्टो । इट्टाचुण्णं व्व । संदट्टो ॥ १. G. सन्दिष्टे । २. इट्टा-चुण्णं व किरंतमुद्धमरुणाअवं परिप्फुरइ । रविणो गअणासि-णिसाण-चक्क-वलओवमं बिंबं ॥ [ग० व० - ११८२] इष्टकाचूर्णमिव किरदूर्ध्वमरुणातपं परिस्फुरति । रवेर्गगनासिनिशानचक्रवलयोपमं बिम्बम् ।। ३. I. M. व । -