SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ १४२ व्युत्पत्तिदीपिकाभिधान-दुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ॥ [बारह] द्वादश । 'क-ग-ट-ड०' (२७७) द्लुक् । अनेन दस्य रः । 'दश-पाषाणे हः' (१।२६२) शस्य हः । प्रथमा जस् । 'जस्-शसोलुंक्' (३।४) जस्लुक् बारह । [ तेरह] त्रयोदश । 'एत् त्रयोदशादौ स्वरस्य सस्वरव्यञ्जनेन' (१११६५) त्रयोस्थाने ते० । अनेन दस्य रः । 'दशपाषाणे हः' (१।२६२) शस्य हः । प्रथमा जस् । 'जस्-शसोलुंक्' (३।४) जस्लुक तेरह । [गग्गरं ] गद्गद । 'क-ग-ट-ड०' (२७७) द्लुक् । 'अनादौ०' (२१८९) गस्य द्वित्वं-ग० → ग्ग० । अनेन दस्य रः । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म् । 'मोऽनु०' (१९२३) अनुस्वारः गग्गरं । [ते दस ] दश । 'श-षोः सः' (१।२६०) श० → स० दस । [चउद्दह] चतुर्द(द)श । 'क-ग-च-ज०' (१।१७७) त्लुक् । 'सर्वत्र०' (२२७९) लुक् । 'अनादौ०' (२१८९) दस्य द्वित्वम् । 'दश-पाषाणे हः' (१।२६२) शस्य हः चउद्दह ॥२१९।। __ कदल्यामद्रुमे ॥ ८।१।२२० ॥ कदलीशब्दे अद्रुमवाचिनि दस्य रो भवति ॥ करली । अद्रुम इति किम् ? कयली केली ॥ [कदल्यामद्रुमे] कदली सप्तमी ङि । अद्रुम सप्तमी ङि । [करली] कदली । प्रथमा सि । अनेन दस्य रः । 'अन्त्यव्य०' (१।११) स्लुक् करली मृगविशेषः । [कयली ] कदली । 'क-ग-च-ज०' (१।१७७) द्लुक् । 'अवर्णो यश्रुतिः' (१।१८०) अ० → य० । प्रथमा सि । 'अन्त्य०' (१।११) स्लुक् कयली । [केली] कदली । 'वा कदले' (१।१६७) दकारेण सह कस्य के । प्रथमा सि । 'अन्त्यव्य०' (१।११) स्लुक् केली ॥२२०॥ प्रदीपि-दोहदे लः ॥ ८॥१॥२२१ ॥ प्रपूर्वे दीप्यतौ धातौ दोहदशब्दे च दस्य लो भवति ॥ पलीवेइ । पलितं । दोहलो ॥ [प्रदीपिदोहदे लः ] प्रदीपिश्च दोहदश्च = प्रदीपिदोहदम्, तस्मिन् = प्रदीपिदोहदे । सप्तमी ङि । ल प्रथमा सि । [ पलीवेइ ] प्रपूर्व० 'दीपैचि दीप्तौ' (१२६६) दीप् । प्रदीप्यन्तं(मानं) प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिग्प्र० → इ० । वर्त्तः तिव् । 'णेरदेदावावे' (३।१४९) एत्त्वम् । अनेन दस्य लः । 'सर्वत्र०' (२७९) लुक् । 'पो वः' (१।२३१) पे० → वे० । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इ० पलीवेइ । [पलित्तं ] प्रदीप्त । अनेन दस्य लः । 'सर्वत्र०' (२१७९) लुक् । 'हुस्वः संयोगे' (१९८४) ली० → लि० । 'कग-ट-ड०' (२७७) प्लुक् । 'अनादौ०' (२।८९) तस्य द्वित्वं - त० →त्त० । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१९२३) अनुस्वारः पलित्तं । [ दोहलो ] दोहद । अनेन दस्य लः । प्रथमा सि । 'अत: सेझैः' (३।२) सि० → डो० → ओ० दोहलो ॥२२१॥ कदम्बे वा ॥ ८॥१।२२२ ॥ कदम्बशब्द दस्य लो वा भवति ॥ कलम्बो । कयम्बो ॥ [कदम्बे वा] कदम्ब सप्तमी ङि । वा प्रथमा सि ।
SR No.007101
Book TitleVyutpatti Dipikabhidhan Dhundikaya Samarthitam Siddha Hem Prakrit Vyakaranam Part 01
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2017
Total Pages442
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy