SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ अष्टमाध्यायस्य प्रथमः पादः ॥ १२३ निकष-स्फटिक-चिकुरे हः ॥ ८।१।१८६ ॥ एषु कस्य हो भवति ॥ निहसो । फलिहो । चिहुरो ॥ चिहुरशब्दः संस्कृतेऽपीति दुर्गः ॥ [निकषस्फटिकचिकुरे हः] निकषश्च स्फटिकश्च चिकुरश्च = निकषस्फटिकचिकुरम्, तस्मिन् = निकषस्फटिकचिकुरे। सप्तमी ङि । ह प्रथमा सि । [निहसो] निकष । अनेन क० → ह० । 'श-षोः सः' (१।२६०) ष० → स० । प्रथमा सि । 'अतः से?:' (३।२) सि० → डो० → ओ० निहसो । [फलिहो ] स्फटिक । प्रथमा सि । 'क-ग-ट-ड०' (२७७) स्लुक् । 'स्फटिके लः' (१।१९७) टस्य लः । अनेन क० → ह० । 'अत: से?:' (३२) सि० → डो० → ओ० फलिहो । [चिहुरो] चिकुर । प्रथमा सि । अनेन कु० → हु० । 'अतः से?:' (३।२) सि० → डो० → ओ० चिहुरो ॥१८६।। ख-घ-थ-ध-भां हः ॥ ८।१।१८७ ॥ स्वरात् परेषामसंयुक्तानामनादिभूतानां ख-घ-थ-ध-भ इत्येतेषां वर्णानां प्रायो हो भवति ॥ ख - साहा । मुहं । मेहला । लिहइ ॥ घ - मेहो । जहणं । माहो । लाहइ । थ - नाहो । आवसहो । मिहुणं । कहइ ॥ ध - साहू । वाहो । बहिरो । बाहइ । इन्दहणू ॥ भ-सहा । सहावो । नहं । थणहरो । सोहइ ॥ स्वरादित्येव - संखो । संघो । कंथा । बंधो । खंभो ॥ असंयुक्तस्येत्येव - अक्खइ । अग्घइ । कत्थइ । सिद्धओ । लब्भइ ॥ अनादेरित्येव - गज्जन्ते खे मेहा । गच्छइ घणो । प्राय इत्येव - सरिसवखलो । पलयघणो । अथिरो । जिणधम्मो । पणट्ठभओ । नभं ॥ [खघथधभाम् ] खश्च घश्च थश्च धश्च भ् च = खघथधभस्तेषाम् = खघथधभाम् । षष्ठी आम् । [हः ] ह प्रथमा सि । [साहा ] शाखा । 'श-षोः सः' (१।२६०) शा० → सा० । अनेन खा० → हा० । प्रथमा सि । 'अन्त्यव्यञ्जनस्य' (१।११) स्लुक् साहा । [मुहं] मुख । अनेन ख० → ह० । प्रथमा सि । 'क्लीबे स्वरान्म् से:' (३।२५) सि० → म्० । 'मोऽनुस्वारः' (१२३) अनुस्वारः मुहं ।। [ मेहला ] मेखला । अनेन ख० → ह० । प्रथमा सि । 'अन्त्यव्य०' (१।११) स्लुक् मेहला । [लिहइ ] लिखति । अनेन ख० → ह० । 'त्यादीनामाद्यत्रय०' (३।१३९) ति० → इ० लिहइ । [ मेहो ] मेघ । अनेन घ० → ह० । प्रथमा सि । 'अत: से?:' (३।२) सि० → डो० → ओ० मेहो । [जहणं] जघन । अनेन घ० → ह० । 'नो णः' (१२२८) न० → ण । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१।२३) अनुस्वारः जहणं ।
SR No.007101
Book TitleVyutpatti Dipikabhidhan Dhundikaya Samarthitam Siddha Hem Prakrit Vyakaranam Part 01
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2017
Total Pages442
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy