________________
११०
व्युत्पत्तिदीपिकाभिधान-दुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ॥
अवापोते ॥ ८।१।१७२ ॥ अवापयोरुपसर्गयोरुत इति विकल्पार्थनिपाते च आदेः स्वरस्य परेण सस्वरव्यञ्जनेन सह ओद् वा भवति ॥ अव - ओअरइ अवयरइ । ओआसो अवयासो । अप - ओसरइ अवसरइ । ओसारिअं अवसारिअं ॥ उत - ओ वणं उअ वणं । ओ घणो उअ घणो ॥ क्वचिन्न भवति - अवगयं । अवसद्दो । उअ रवी । [अवापोते ] अव-अप-उत सप्तमी ङि ।
[ओअरइ अवयरइ ] अवतरति । अनेन वा अवस्य ओ० । 'क-ग-च-ज०' (१।१७७) त्लुक् । 'त्यादीनामाद्यत्रयस्याद्यस्येचेचौ' (३।१३९) ति० → इ० ओअरइ । पक्षे-अवयरइ ।
[ओआसो अवयासो] अवकाश । अनेन वा अवस्य ओ० । 'क-ग-च-ज०' (१।१७७) क्लुक् । 'श-षोः सः' (१।२६०) श० → स० । प्रथमा सि । 'अतः से?:' (३।२) सि० → डो० → ओ० । 'डित्यन्त्य०' (२।१।११४) अलुक् ओआसो । पक्षे-'क-ग-च-ज०' (१।१७७) क्लुक् । 'अवर्णो यश्रुतिः' (१।१८०) आ० → या० अवयासो ।
[ओसरइ अवसरइ] अपसरति । अनेन वा अपस्य ओ० । 'त्यादीना०' (३।१३९) ति० → इ० ओसरइ । पक्षे'पो वः' (१२२३१) प० → व० अवसरइ ।
[ओसारिअं अवसारिअं] अपसारित । अनेन अपस्य ओ० । 'क-ग-च-ज०' (१।१७७) त्लुक् । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१।२३) अनुस्वारः ओसारिअं । पक्षे- 'पो वः' (१।२३१) प० → व० । शेषं पूर्ववत् । अवसारिअं।
[ओ वणं उअ वणं] उत-वन । अनेन वा उतस्य ओ० । 'नो णः' (१।२२८) न० → ण । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१९२३) अनुस्वारः ओ वणं । पक्षे- 'क-ग-च-ज०' (१।१७७) त्लुक् उअ वणं ।
[ओ घणो उअ घणो ] उत-घन । अनेन वा उतस्य ओ० । 'नो णः' (१।२२८) न० → ण । प्रथमा सि । 'अतः से?:' (३।२) सि० → डो० → ओ० । 'डित्यन्त्य०' (२।१।११४) अलुक् ओ घणो । पक्षे- 'क-ग-च-ज०' (१।१७७) त्लुक् उअ घणो ।
क्वचिन्न स्यात्- [अवगयं] अव-गत । 'क-ग-च-ज०' (१।१७७) त्लुक् । 'अवर्णो यश्रुतिः' (१।१८०) अ० → य० । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म् । 'मोऽनु०' (१।२३) अनुस्वारः अवगयं ।
[अवसद्दो] अप-शब्द । 'पो वः' (१।२३१) पस्य वः । 'श-षोः सः' (१।२६०) श० → स० । 'सर्वत्र०' (२।७९) ब्लुक् । 'अनादौ०' (२।८९) दस्य द्वित्वम् अवसद्दो ।
[उअ रवी] उत-रवि । 'क-ग-च-ज०' (१११७७) त्लुक् । प्रथमा सि । 'अक्लीबे सौ' (३।१९) दीर्घः- वि० → वी० । 'अन्त्यव्यः' (१।११) स्लुक् उअ रवी ॥१७२।।
ऊच्चोपे ॥ ८।१।१७३ ॥ उपशब्दे आदेः स्वरस्य परेण सस्वरव्यञ्जनेन सह ऊत्-ओच्चादेशौ वा भवतः ।।