________________
अष्टमाध्यायस्य प्रथमः पादः ॥
१०३
उत् सौन्दर्यादौ ॥ ८।१।१६० ॥ सौन्दर्यादिषु शब्देषु औत उद् भवति ।।
सौन्दर्य → सुन्देरं - सुन्दरिअं । मौञ्जायन → मुञ्जायणो । शौण्ड → सुण्डो । शौद्धोदनि → सुद्धोअणी । दौवारिक → दुवारिओ । सौगन्ध्य → सुगन्धत्तणं । पौलोमी → पुलोमी । सौर्णिक → सुवण्णिओ ॥
[ उत् सौन्दर्यादौ ] उत् प्रथमा सि । सौन्दर्य आदौ यस्य सः = सौन्दर्यादिः, तस्मिन् = सौन्दर्यादौ । सप्तमी ङि ।
[सुन्देरं] सौन्दर्य । अनेन सौ० → सु० । “एच्छय्यादौ' (१५७) द० → दे० । 'ब्रह्मचर्य-तूर्य-सौन्दर्य-शौण्डीर्ये र्यो र:' (२।६३) र्यस्य रः । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१९२३) अनुस्वारः सुन्देरं ।
[सुन्दरिअं] सौन्दर्य । अनेन सौ० → सु० । 'स्याद्-भव्य-चैत्य-चौर्यसमेषु यात्' (२।१०७) यात् प्राग् इकारः । 'क-ग-च-ज०' (१।१७७) य्लुक् । प्रथमा सि । 'क्लीबे०' (३२५) सि० → म्० । 'मोऽनु०' (१२२३) अनुस्वारः सुन्दरिअं।
[मुञ्जायणो] मौञ्जायन । अनेन मौ० → मु० । 'नो णः' (१।२२८) न० → ण । प्रथमा सि । 'अतः से?:' (३२) सि० → डो० → ओ० । 'डित्यन्त्य०' (२।१।११४) अलुक् मुञ्जायणो ।
[सुण्डो ] शौण्ड । अनेन शौ० → शु० । 'श-षोः सः' (१।२६०) शु० → सु० । प्रथमा सि । 'अत: से?:' (३।२) सि० → डो० → ओ० । 'डित्यन्त्य०' (२।१।११४) अलुक् सुण्डो ।
[सुद्धोअणी ] शौद्धोदनि । अनेन शौ० → शु० । 'श-षोः सः' (१।२६०) शु० → सु० । 'क-ग-च-ज०' (१।१७७) द्लुक् । 'नो णः' (१।२२८) नि० →णि । प्रथमा सि । 'अक्लीबे सौ' (३।१९) दीर्घः- णि० →णी० । 'अन्त्यव्य०' (१।११) स्लुक् सुद्धोअणी ।
[दुवारिओ ] दौवारिक । अनेन दौ० → दु० । 'क-ग-च-ज०' (१।१७७) क्लुक् । प्रथमा सि । 'अत: से?:' (३।२) सि० → डो० → ओ० । 'डित्यन्त्य०' (२।१।११४) अलुक् दुवारिओ।
[सुगन्धत्तणं] सौगन्ध्य । अनेन सौ० → सु० । त्वस्योपलक्षणात् 'त्वस्य डिमा-त्तणौ वा' (३।१५४) इति यस्यापि त्तण० । प्रथमा सि । 'क्लीबे०' (३६२५) सि० → म्० । 'मोऽनु०' (११२३) अनुस्वारः सुगन्धत्तणं ।
[पुलोमी ] पौलोमी । अनेन पौ० → पु० । प्रथमा सि । 'अन्त्य०' (१।११) स्लुक् पुलोमी ।
[सवण्णिओ] सौवर्णिक । अनेन सौ० → सु० । 'सर्वत्र०' (२७९) लुक् । 'क-ग-च-ज०' (१११७७) क्लुक्। 'अनादौ०' (२।८९) णस्य द्वित्वम् । प्रथमा सि । 'अतः से?:' (३।२) सि० → डो० ओ० । 'डित्यन्त्य०' (२।१।११४) अलुक् सुवण्णिओ ॥१६०॥
कौक्षेयके वा ॥८॥११६१ ॥
कौक्षेयकशब्दे औत उद् वा भवति ।। कुच्छेअयं कोच्छेअयं ॥ [कौक्षेयके वा] कौक्षेयक सप्तमी ङि । वा प्रथमा सि ।
१.G सुंदरियं ।