________________
९६
व्युत्पत्तिदीपिकाभिधान-ढुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ॥
[तेलुक्कं] त्रैलोक्य । अनेन ऐ० → ए० । 'सर्वत्र०' (२१७९) लुक् । 'हुस्वः संयोगे' (१९८४) लो० → लु० । 'अधो म-न-याम्' (२७८) य्लुक् । 'अनादौ०' (२।८९) कस्य द्वित्वं- क० → क० । प्रथमा सि । 'क्लीबे०' (३६२५) सि० → म्० । 'मोऽनुस्वारः (१९२३) अनुस्वारः तेलुक्कं ।
_[एरावणो] ऐरावण । अनेन ऐ० → ए० । प्रथमा सि । 'अतः से?:' (३।२) सि० → डो० → ओ० । 'डित्यन्त्यः' (२।१।११४) अलुक् एरावणो ।
[केलासो] कैलाश । अनेन कै० के० । 'श-षोः सः' (१।२६०) श० → स० । प्रथमा सि । 'अतः से?:' (३।२) सि० → डो० → ओ० । 'डित्यन्त्य०' (२।१।११४) अलुक् केलासो। __ [वेज्जो ] वैद्य । अनेन वै० → वे० । 'द्य-य्य-र्यां जः' (२।२४) द्य० → ज० । “अनादौ०' (२।८९) जस्य द्वित्वम् । प्रथमा सि । 'अतः सेझैः' (३।२) सि० → डो० → ओ० । 'डित्यन्त्यः' (२।१।११४) अलुक् वेज्जो ।
[केढवो] कैटभ । अनेन कै० → के० । 'सटा-शकट-कैटभे ढः' (१।१९६) टस्य ढः । 'कैटभे भो वः' (१२२४०) भस्य वः । प्रथमा सि । 'अतः सेझैः' (३२) सि० → डो० → ओ० । 'डित्यन्त्य०' (२।१।११४) अलुक् केढवो ।
[वेहव्वं ] वैधव्य । अनेन वै० → वे० । 'ख-घ-थ-ध-भाम्' (१२१८७) धस्य हः । 'अधो म-न-याम्' (२१७८) य्लुक् । 'अनादौ०' (२।८९) वस्य द्वित्वं- व० → ब्व० । प्रथमा सि । 'क्लीबे०' (३६२५) सि० → म् । 'मोऽनुस्वारः' (१।२३) अनुस्वारः वेहव्वं ॥१४८॥
इत् सैन्धव-शनैश्चरे ॥ ८।१।१४९ ॥ एतयोरैत इत्त्वं भवति ॥ सिन्धवं । सणिच्छरो ॥
[इत् सैन्धवशनैश्चरे ] इत् प्रथमा सि । सैन्धवं च शनैश्चरश्च = सैन्धवशनैश्चरम्, तस्मिन् = सैन्धवशनैश्चरे । सप्तमी ङि।
सिन्धवं] सैन्धव । अनेन सै० → सि० । प्रथमा सि । 'क्लीबे०' (३।२५) सि० २ म० । 'मोऽनुस्वारः' (१।२३) अनुस्वारः सिन्धवं ।
[सणिच्छरो] शनैश्चर । अनेन नै० → नि० । 'श-षोः सः' (१।२६०) श० → स० । 'नो णः' (१।२२८) नि० → णि० । 'हुस्वात् थ्य-श्च-त्स-प्सामनिश्चले' (२।२१) श्चस्थाने छ० । 'अनादौ०' (२२८९) छस्य द्वित्वम् । 'द्वितीयतुर्ययो०' (२२९०) पूर्वछस्य चः । प्रथमा सि । 'अतः से?:' (३।२) सि० → डो० → ओ० । 'डित्यन्त्य०' (२१।११४) अलुक् सणिच्छरो ॥१४९॥
सैन्ये वा ॥८।१।१५० ॥
सैन्यशब्दे ऐत इद् वा भवति ॥ सिन्नं सेन्नं ॥ [सैन्ये वा] सैन्य सप्तमी ङि । वा प्रथमा सि ।
१. G. H. I. L. M. तेलोक्कं । २. G. H. I. L. M. कैलास । ३. G. 'तैलादौ' (२२९८)। ४. A. [सिंहवं] सैन्धव । प्रथमा सि । अनेन सै० → सि० । 'ख-घ-थ०' (१।१८७) ध० → ह० । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१।२३) अनुस्वारः सिंहवं ।