________________
26
INDIAN PHILOSOPHY 74. स्यादेतत् - आदित्यगतिनिमित्ता द्रव्याणां वर्तनेति; तन्न; किं कारणम् ? तद्गातावपि
तत्सद्भावात् । सवितुरपि व्रज्यायां भूतादिव्यवहारविषयभूतायां क्रियेत्येवं रूढायां
वर्तनादर्शनात् तद्धेतुनाऽन्येन कालेन भवितव्यम् । Rajavartika (Ed.. Pt. .. Mahendrakumar), p. 477. 75. यथा भाजनं तण्डुलानामधिकरणं न तु तदेव पचति, तेजसो हि स व्यापारः,
तथाकाशमप्यादित्यगत्यादिवर्तनायामधिकरणं न तु तदेव निवर्तयति । कालस्य हि स
व्यापारः। Ibid., p. 477. 76. कालानुगृहीतवर्तना हि सत्तेति ततोऽप्यन्येन कालेन भवितव्यम् । Ibid., p. 477. 77. स्यान्मतम् – क्रियामात्रमेव कालः। ...सर्वोऽयं कालव्यवहारः क्रियाकृतः । क्रिया हि क्रियान्तरपरिच्छिन्ना अन्यक्रियापरिच्छेदे वर्तमाना कालांख्या भवति । योऽपि समयो नाम भवद्भिरुच्यते स परमाणुपरिवर्तनक्रियासमय एव कालसामानाधिकरण्यात् । न समयपरिमाणपरिच्छेदकोऽन्यः ततः सूक्ष्मतरः कश्चिदस्ति कालः । तत्समयक्रियाकलाप आवलिका, तत्प्रचय उच्छ्वास इत्यादि समयक्रियाकलापपरिच्छिन्ना 'आवलिका उच्छ्वासपरिच्छेदे वर्तमाना कालाख्या '। एवमुत्तरत्रापि योज्यम् । लोकेऽपि तथैव गोदोहेन्धनपाकादिरन्योऽन्यपरिच्छेदे वर्तमानः कालाख्य इति क्रियैव काल इति......।
Ibid., p. 482. 78. सत्यं क्रियाकृत एवायं व्यवहारः सर्वः - उच्छ्वासमात्रेण कृतं मुहूर्तेन कृतमिति, किन्तु
समय उच्छ्वासो निश्वासो मुहूर्त इति स्वसंज्ञाभिर्निरूढानां काल इत्यभिधानमकस्मान्न भवति । यथा देवदत्तसंज्ञया निरूढे पिण्डे दण्ड्यभिधानमकस्मान्न भवति इति दण्डसम्बन्ध
सिद्धिः तथा कालसिद्धिरपि। Ibid., pp. 482-483. , 79. तस्य वर्तमानकालाभावः प्रसक्तः । कथम् ? ऊयते पट इति यः प्रक्षिप्तस्तन्तुः सोऽतिक्रान्तः,
यः प्रक्षेप्स्यते सोऽनागतः, न च तयोरन्तरे काचिदन्या अनतिक्रान्ताऽनागामिनी क्रियाऽस्ति या वर्तमानत्वेन परिगृह्यते । वर्तमानापेक्षौ च पुनरतीतानागताविष्येते तदभावे तयोरप्यभावः
स्यात् । Ibid., p. 483. 80. आरम्भादिरपवर्गान्तः क्रियाकलापो वर्तमान इति ।......तदप्ययुक्तम; कुत: ?......
क्षणिकानां क्रियावयवानां समूहाभावाच्च । Ibid., p. 483. 81. यदि व्यतिरेकेणानुपलब्धेः कालो नास्ति इत्युच्यते; ननु क्रियायाः क्रियासमूहस्य चाभावः ।
कारणानां हि प्रवृत्तिविशेषः क्रिया, न तेभ्यः प्रवृत्तिर्व्यतिरिक्ता उपलभ्यते। Ibid., p. 483. 82. किञ्च, क्रिया क्रियान्तरस्य परिच्छेदिका कालव्यपदेशभागित्यनुपपन्नमनवस्थानात् । स्थितो
हि लोके प्रस्थादिः परिमाणविशेषः व्रीह्यादेवस्थितस्य परिच्छेदको दृष्टः । न च तथा क्रियाऽवस्थिता अस्ति क्षणमात्रावलम्बनाभ्युपगमात्। न हि स्वयमनवस्थितः कश्चिदनवस्थितस्य परिच्छेदको दृष्टः। Ibid., p. 483.