________________
प्रथमोऽध्यायः
सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः ॥१॥ तत्त्वार्थश्रद्धानं सम्यग्दर्शनम् ॥२॥ तन्निसर्गादधिगमाद्वा ॥३॥ जीवाजीवात्रवबन्धसंवरनिर्जरामोक्षास्तत्त्वम् ॥४॥ नामस्थापनाद्रव्यभावतस्तन्न्यासः ॥५॥ प्रमाणनयैरधिगमः ॥६॥ निर्देशस्वामित्वसाधनाधिकरणस्थितिविधानतः ॥७॥ सत्संख्याक्षेत्रस्पर्शनकालान्तरभावाल्पबहुत्वैश्च ॥८॥ मतिश्रुतावधिमनः पर्यायकेवलानि ज्ञानम् ॥९॥ तत् प्रमाणे ॥१०॥ आद्ये परोक्षम् ॥११॥ प्रत्यक्षमन्यत् ॥१२॥ मतिः स्मृति: संज्ञा चिन्ताऽभिनिबोध इत्यनर्थान्तरम् ॥१३॥ तदिन्द्रियानिन्द्रियनिमित्तम् ॥१४॥ अवग्रहेहावायधारणाः ॥१५॥ बहुबहुविधक्षिप्रानिश्रितासंदिग्धध्रुवाणां सेतराणाम् ॥१६॥ १. आश्रव-हा। २. मनःपर्यय-स. रा. श्लो. ३. तत्र आद्ये-हा ।
४. "हापाय. भा. हा. सि. Akalanka says that both the readings apāya and avāya are proper.
५. निःसृतानुक्तध्रु-स., रा । निसृतानुक्तध्रु' -श्लो० ।- क्षिप्रनिःसृतानुक्तध्रु' स-पा० । 'प्रानिश्रितानुक्तध्रु° भा०, सि-वृ. ।- "श्रितनिश्चितध्रु' सि-वृ-पा. ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org