SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ Translation with Notes 2i A disputant is said really to refute his opponent, if the former can detect in the reasoning of the latter any of the fallacies aforementioned. But it will be a mere semblance of refutation if he ascribes to his opponent fallacies which he has not really committed. सकलावरणमुक्तात्म केवलं यत् प्रकाशते । प्रत्यक्ष सकलार्थात्मसततप्रतिभासनम् ॥ २७॥ सकलं समस्तम् आवृणोति आवियते वा अनेनेत्यावरणम् । तत् स्वरूपप्रच्छादनं कर्मेत्यर्थः । सकलं च तदावरणं च सकलावरणं तेन मुक्तो रहितः आत्मा स्वरूपं यस्य तत् तथा। अतएव केवलम् असहायम् आवरणक्षयोपशमविचित्रतयैव बोधस्य नानाकारस्य प्रवृत्तेः । सामस्स्येन पुनः आवरणनिर्दलने विबन्धकारणवैकल्याद् एकाकारतयैव तस्य विवर्तनाद् अतो ज्ञानान्तरनिरपेक्षं यत् प्रकाशते प्रथते निरुपाधिक मोतते इत्यर्थः । तत् परमार्थतः प्रत्यक्षं तदिदं सकलावरणमुक्तात्मेति हेतुद्वारेण तथा केवलं तत् प्रकाशते इति स्वरूपतो निरूप्य अधुना कार्यद्वारेण निरूपयन्नाह । सकलार्थात्मनां समस्तवस्तुस्वरूपाणां सततप्रतिभासनम् अनवरतप्रकाशनं सकलार्थात्मसततप्रतिभासनमिति प्रतिभास्यतेऽनेनेति प्रतिभासनम् आत्मनो धर्मरूपतया भेदवद्विवक्षितं ज्ञानमिति यावत् । अस्य च पारमार्थिकत्वं निरुपचरितशब्दार्थोपपत्तेः । तथाहि । अक्षशब्दो जीवपर्यायस्ततश्चाक्षं प्रति वर्तते इति प्रत्यक्षं यत्रात्मनः साक्षाद्वापारः । व्यवहारिक पुनरिन्द्रियव्यवहितात्मव्यापारसम्पाद्यत्वात् परमार्थतः परोक्षमेव घूमादग्निज्ञानवत्तिरोधानाविशेषात् ॥ २७ ॥ 27. That which is characterised as free from all obstructions and shines as the absolute is called (supreme or transcendental) perception; it uninterruptedly illumines the nature of all objects. Perception (pratyaksa) is used in two senses : (1) supreme or transcendental (pāra-mārthika), and (2) practical (vyāvahārika). The practical perception consists of knowledge acquired by the soul through the channels of the senses such as the visual knowledge, auditory knowledge, etc. The transcendental perception is knowledge acquired by the soul direct through meditation without the intervention of the senses or signs. प्रमाणस्य फलं साक्षादज्ञानविनिवर्तनम् । केवलस्य सुखोपेक्षे शेषस्यादानहानधीः ॥ २८ ॥ द्विविधं हि प्रमाणस्य फलं साक्षाद् असाक्षाच्च अनन्तरं व्यवहितं चेत्यर्थः । तत्र साक्षाद् अज्ञानम् अनध्यवसायः प्रमेयापरिच्छित्तिस्तस्य विनिवर्तनं विशेषेण प्रलयापादनं प्रमाणस्य फलम् अज्ञानोद्दलनद्वारेण तस्य प्रवृत्तेः तस्य सर्वानर्थमूलतया प्रमात्रपकारित्वात् तन्निवर्तनस्य प्रयोजनता युक्तव। एतच्चानन्तरप्रयोजनं सर्वज्ञानामेकरूपत्वात् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.006770
Book TitleNyayavatara
Original Sutra AuthorN/A
AuthorSatyaranjan Banerjee
PublisherSanskrit Book Depot P Ltd
Publication Year1981
Total Pages78
LanguageEnglish
ClassificationBook_English
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy