________________
श्रीशत्रुजय-गिरिराज-दर्शनम् तेजःपाल इति प्रहृष्ट सुमनाः पित्रोर्मनः प्रितिकृत् ॥ ३६ ॥ (का)मस्येव रतिर्ह रेरिव रमा गौरीव गौरीपते-रासीत्तेजलदे इति प्रियतमा तस्याकृतिः सत्कृतिः ॥ भागश्री सुभगौ गुरौ प्रणयिनौ शश्वत्सुपर्वादरौ । पौलामी त्रिदशेश्वराविव सुखं तौ दंपती भजेतुः ॥३७॥ वैराग्यवारिनिधिपूर्णनिशाकराणां । तेषां च हीरविजयवृत्तिसिंधुराणाम् ॥ सौभाग्यभाग्यपरविभासुराणां । तेषां पुनर्विजयसेनमुनीश्वराणाम् ॥ ३८ ॥ वाग्भिर्मुधा कृतसुधाभिरुदंचिचेताः श्राद्धः स शोभनमना भजति स्म भावम् ।। श्रीसंघभक्तिधनदानजिनेंद्र चैत्यो-द्धारादिकर्मसु भशं सुकृतिप्रियेषु ॥ ३९ ॥ ग्रहैः प्रशस्तेऽन्हि सुपार्श्वभर्त(र)नन्तभर्त्तश्च शुभां प्रतिष्ठाम् ॥ सोऽचीकरषड्युगभूय१६४६वर्षे । हर्षेण सौवर्णिकतेजपालः ॥ ४० ॥ आदावार्षभिरत्र तिर्थतिलके शत्रुजयेऽचीकरत् । चैत्यं शैत्यकरं दशार्मणिगणस्वर्णादिभिर्भासुरम् ॥ ४१ ॥ अत्रान्यपि भुजार्जितां फलवतीमुच्चैः सृजंतः श्रीयं ॥ प्रासादं तदनुक्रमेण बहवश्चाकारयन् भूभुजः ॥ ४२ ।। तीर्थेऽत्र साधुकरमाभिधो धनी सिद्धिसिद्धितिथि १५८८ संख्ये ॥ चैत्यमयी करदुकतेरानंदविमलमुनिराजाम् ॥ ४३ ॥ तं वीक्ष्य जीर्ण भगवविहारं स तेजपालः स्वहृदीति दध्यौ ॥ भावी कदा सेोऽवसरो वरीयान् यत्राऽत्र चैत्यं भविता नवीनम् ॥ ४४ ॥ अन्येद्यः स्वगुरुपदेशशरदाकामं वलक्षीकृत । स्वांतांभाः सवणिग् वरपुरंदरे श्रीस्तंभतीर्थे वसन् ॥ तीर्थे श्रीमति तुंगतीर्थतिलके शत्रुजयेऽर्हद् गृहोद्धारं कर्तुमना अजायततमां साफल्य पिच्छलश्रियः ॥ ४५ ॥ अत्र स्यात् सुकृत कृतं तनुमतां श्रेयः श्रियां कारणम् । मत्वैवं निजपूर्वजव्रजमहानंदप्रमादाप्तये ॥ तीर्थे श्रीविमलाचलेऽतीविमले मौलेऽहंतो मदिरे। जीर्णोद्धारमकारयत्स सुकृती कुंती तन् जन्मवत् ॥४६॥ श्रृंगेण भिन्नगगनांगणमेतदुच्चैश्चैत्य चकास्ति शिखरस्थितहेमकुंभम् ॥ हस्तेषु पर(५२)हस्तमितमुच्चमुपैति नाकलक्ष्मी विजेतुमिव काममखर्वगर्वाम् ॥ ४७ ॥ यत्राहदाकसि जितागरकुंभिकुंभाः । कुभा विमाति शरवेदकरें दु१२४५संख्या ः।। किं सेवितुं प्रभमयुः प्रचुरप्रताप-पूरैर्जिता दिनकराः कृतनैकरुपाः ॥ ४८ ॥ उन्मूलितप्रमदभू मिरुहानशेषान् । विश्वेपु विघ्रकरिणो युगपन्निहंतुम् । सज्जाः स्म इत्थमभिधातुमिवेंदुनेत्राः (२१) । सिंहा विभांत्युपगता जिनधाम्नि यत्र ॥ ४९ ॥ योगिन्यो यत्र शोभते चतस्त्रोः जिनवेश्मनि । निषेवितुमिवाक्रांताः प्रतापैरागता
दीशः ॥ ५०
राजते च दिशांपाला प्रासादे यत्राऽहंदालये ॥ मूर्तिमंतः किमायाता धस्सिंयमिनामभी ॥ ५१ ॥ द्वासप्ततिः श्रियमयंति जिनेंद्रचंद्र-बिंबानि देवकुलीकासु च तावतीषु । द्वासप्ततेः श्रितजनालिकला लतानां । किंकुंङ्मला परिमलैर्भुवनं भरंतः ॥ ५२ ॥ राजते यत्र चत्वारो.
(8)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org