________________
॥२॥
શાસ્ત્રપ્રશસ્તિ ॥ शास्त्रप्रशस्तिः ॥
( अनुष्टुत्तम् ) काठियावाड देशे च, वर्द्धमानपुरी पुरा ।
वढवाणसिटीनाम्नी, या प्रसिद्धाऽस्ति संपति ॥१॥ तत्राहं मुनिमिः साई, ग्रामाद्गामान्तरं व्रजन् ।
टीकामकार्षमागत्य, सरलामर्थबोधिनीम् ते चेमे
( वसन्ततिलकावृत्तम् ) मिथ्यात्वदर्शन-चरित्रविमोहनीय,
विध्वंसनेन समवाप्य रुचिं स्पधर्मे । घ्याख्यानतो मुदमुपैति च यस्य पर्षत् ,
सोऽयं विभाति मुनिवीर-समीरमल्लः ॥३॥ शास्त्रार्थसंग्रहविधौ त्वरया युतेन,
साहाय्यमत्र मम तेन परं व्यधायि । तं वीरपुत्रपदशोभि-समीरमल्लं, नित्यं स्मरामि ननु किं करवाणि तस्मै ___॥४॥
(शिखरिणीवृत्तम् )। उदारो निर्मानो जिननिगमतत्त्वार्थनिपुणः,
क्रियादक्षोऽक्लान्तो गुरुजनमनोहादजनकः । सभायां चातुर्याद् बहुजनमनोरञ्जनपरः,
कनैयालालोऽयं सदयहृदयः संयमपरः ॥५॥
॥४॥
શ્રી અનુત્તરોપપાતિક સૂત્ર