________________
मुनिहर्षिणी टीका अ. ४ गणिसम्पत्सु विनयप्रतिवर्णनम्
१२३
सम्यक् = शास्त्रोक्तविधिना व्यवहरमाणः = प्रवृत्तिं कुर्वन् प्रयतमान इत्यर्थः, तस्याधिकरणस्य क्षमापनव्युपशमनतया = क्षमापनं = जातापराधस्य परस्परं क्षमाप्रदानं, व्युपशमनं = परस्परं क्रोधादिप्रशान्तनं, तयोर्भावस्तत्ता, तया सदा-सर्वदा समितं =सावधानं यथा स्यात्तथा अभ्युत्थाता = अधिकरण निवारणे समुद्युक्तो भवति ।
अथ स किं विचारयतीत्याह - ' कहं तु' इत्यादि । 'नु' वितर्के कथं = केन प्रकारेण साधर्मिकाः - एते साधवः अल्पशब्दाः = विगतराटीकाः 'राड' इति भाषायाम्, अल्पझञ्झाः=नष्टपरस्परभेदोत्पादकवचनाः, अल्पकलहाः - कलस्य = शान्तव्यवहारस्य हननं कलहः, अल्पः = अपगतः कलहो यतस्ते तथा = अपगतवाचिकभण्डनाः, अल्पकषायाः - विनष्टकषायाः, अल्पतुमतुमाः अल्पम् = अपगतं तुमंतुमं'स्वल्पापराधेऽपि - 'त्वमेवं पुरा कृतवान् त्वमेवं सदाऽपि करोषि ' इत्यादि पलपनं येषां ते तथोक्ताः - अविद्यमान स्वंत्वमन्त इत्यर्थः, एतेष्वल्पशब्दोऽभाववाचकः । संयमबहुलाः- संयमः - सावद्ययोगात् सम्यगुपरमणं बहुलः = प्रचुरो येषां ते तथा प्रभूतसंयमवन्त इत्यर्थः । अत्र बहुलशब्दस्य पूर्वप्रयोगात्वेऽपि सौत्रत्वान्न पूर्वप्रयोगः, एवमग्रेऽपि, संवरबहुलाः- संवियते = निरुध्यते आस्रवकर्म येन स संवरः, यद्वा-संवरणं संवरः = स्थगनम् स द्रव्य-भाव-भेदाभ्यां द्विविधः, तत्र - द्रव्यतः - १ तथाविधद्रव्येण मसृणमृत्तिकादिना सलिलोपरितस्तरण्यादेरनारतं प्रविशन्नीराणां विवराणां विधानम् २ भावतः समिति - गुप्तिप्रभृतिभिरात्मतरण्यां क्षरत्कर्म सलिलानां स्थगनम् अत्र भावसंवरचारित्रलक्षणो गृह्यते, बहुल: = संवरो येषां ते तथोक्ताः, समाधिबहुलाः - बहुलः प्रभृतः समाधिः = सम्यक्तया मोक्षक्षमापना कराने में सावधान हो, शांति के लिये सदा उद्योगशील होवे और विचार करे - " कहं नु " इत्यादि किस प्रकार ये मुनि शान्त बने, इनको आपसकी लडाई मिटे । ये लोग परस्पर भेदोसादक शब्द न बोले, शांतिभंग करने वाले कलह से हटे, कषाय का त्याग करे, परस्पर तू-तूकार शब्द का प्रयोग न करे, अर्थात् अल्प अपराध के होने पर भी एक दूसरे को ' तुमने ही अपराध किया है और करते रहते हो ' इत्यादि न बोले, संयमबहुल, संवरबहुल,
उद्योगशील थवु भने विचार ४२वो- 'कहं नु' इत्याहि- या प्रकारे भुनि शांत मने એમની અંદર-અંદરની લડાઇ કેવી રીતે મટે ? આ લેાકેા પરસ્પર ભેદ ઉત્પન્ન થાય તેવા શબ્દો ન ખેલે શાંતિભંગ કરવાવાળા કલહથી હટી જાય. કષાયના ત્યાગ કરે, પરસ્પર તુ-તૂકાર (ટુંકારાના) શબ્દના ત્યાગ કરે અર્થાત્ અલ્પ અપરાધ હતાં પણ એક બીજાને તેજ અપરાધ કર્યાં છે અને કર્યાંજ કરે છે' ઇત્યાદિ ન મેલે સયમ
(
શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર