________________
भाष्यम् उ० १० सू. ६-७
चतुष्पुरुषजातप्रकरणम् २४५
छाया-चत्वारः पुरुषजाताः प्रज्ञप्ताः, तद्यथा-अर्थकरो नाम एको नो मानकरः १, मानकरो नाम एको नो अर्थकरः २, एकोअर्थकरोऽपि मानकरोऽपि ३, एको नो अर्थकरो नो मानकरः ४॥ सू० ६॥
भाष्यम्- 'चत्तारि' चत्वारः 'पुरिसजाया' पन्नत्ता' पुरुषजाताः-चतुष्प्रकाराः पुरुषाः प्रज्ञप्ताः-कथिताः, तानेव चतुरो भेदान् दर्शयति-तंजहा' तद्यथा-'अत्थकरे नाम एगे नो माणकरे' अर्थकरो नाम एकः नो मानकरः, तत्रार्थ उपकारः तादृशमथं करोति सोऽर्थकरः परेषां हितकारकोऽहितनिवारको भवेत् किन्तु न मानकरः। परेषामुपकारं कृत्वाऽभिमानं न करोतीति प्रथमः १।
'माणकरे णाम एगे णो अट्टकरे' मानकरो नाम एकः न त्वर्थकरः कश्चिदेतादृश. पुरुषः, यो हि मानं करोति, न पुनः करोति कदाचिदपि कस्यापि कमप्युपकारम्, एष द्वितीयः २ । 'एगे अट्ठकरेवि माणकरेवि' एकोऽर्थकरोऽपि मानकरोऽपि, तृतीयस्तु स हि भवति यो मानं करोति उपकारमपि करोति ३ । 'एगे नो अट्ठकरे नो माणकरे' एकश्चतुर्थः सः, यो नो अर्थकरों नो वा मानकरः उभयमपि न करोति, चतुर्थ प्रकारकः सः, यो न परेषामुपकारं करोति न मानमपि करोति ४ । एते चत्वारः चतुभिर्भदैर्भिन्नाश्चतुर्विधाः पुरुषा भवन्तीति ।
अयं भावः- एकोऽर्थकरः आचार्यस्य वैयावृत्त्यसंपादको न तु मानकरः १। द्वितीयो नार्थकरः केवलं मानकर एव राजवंशीयोऽहम्, धनिकवंशीयोऽहं वेति जातिकुलाद्यभिमानवानेव २। तृतीय उभयकरः अर्थकरोऽपि मानकरोऽपि, मानं कुर्वन्नपि भाचार्यादेः कार्यसंपादकः ३ । चतुर्थो नार्थकरो, न वा मानकरः, अर्थमाचार्यादेन किमपि कार्य करोति, मानम्-अभिमानमपि न करोति है । अत्र-चतुष्प्रकारकेष्वपि पुरुषेषु मध्ये प्रथमतृतीयौ-अर्यकरोभयकरौ सफलौ, इतरौद्वितीयचतुर्थी-मानकरो नो अर्थकरो नोभयकरश्चेत्येतौ द्वितीयचतुथौ पुरुषौ निष्फलौ ।
अथ दृष्टान्तमाह- एकस्मिन् नगरे केचिच्चत्वारः पुरुषाः केनाप्यपराधेन राज्ञा निर्विषयीकृताः सन्तो देशान्तरे गत्वा कस्यचिद्राज्ञः सेवायां स्थितवन्तः । तत्र तेषु चतुषु मध्ये एकस्तस्य राज्ञः कार्य संपादयति नाभिमानं करोति, तथा-राज्ञोऽभ्युत्थानासनदानादिना विनयं च करोति १ । द्वितीयो राज्ञः कार्य तु संपादयति किन्तु-मानं करोति नाभ्युत्थानासनदानादिना कमपि विनयं करोति-'अहमपि राजवंशीयः कुलजात्यादिमानस्मि, अहमपि जातिकुलादिनाऽनेन समान एवाऽस्मी'-त्यभिमानं करोति २ । एतौ द्वौ प्रथमतृतीयभङ्गप्रदर्शितौ पुरुषौ स्तः । शेषयोईयोर्मध्ये एको मानं करोति-'अहमेतादृशोऽस्मि, मम पूर्वजाः समृद्धिशालिन भासन्' इत्यादिरूपेण मानमात्रं करोति किन्तु न राज्ञः कार्य संपादयति १, द्वितीयस्तु राज्ञो