SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ भाष्यम् उ० ९ सू० ४० दशदशकिकाभिक्षुप्रतिमानिरूपणम् २१९ अथ दशदशकिकां भिक्षुप्रतिमामाह- 'दसदसमिया गं' इत्यादि । सूत्रम्-दसदसमिया णं भिक्खुपडिमा एगेणं राइंदियसएणं अद्धछठेहि य भिक्खासएहिं अहामुत्तं अहाकप्पं अहामग्गं अहातच्चं सम्मंकाएणं फासिया पालिया सोहिया तीरिया किटिया आणाए अणुपालिया भवइ । सू०४० ॥ छाया-दशदशकिका खलु भिक्षुप्रतिमा एकेन रात्रिन्दिवशतेन अर्द्धषष्ठेश्च भिक्षाशतैः यथासूत्रम् यथाकल्पम् यथामार्गम् यथातथ्यम् सम्यक्कायेन स्पर्शिता पालिता शोधिता तीरिता कीर्त्तित्ता आशया अनुपालिता भवति ॥ सू० ४० ॥ भाष्यम्-'दसदसमिया णं भिक्खुपडिमा' दशदशकिका खलु भिक्षुप्रतिमा, तत्र दशदशकिका-दश दशकानि यस्यां सा दशदशकिका, एतादृशी भिक्षुप्रतिमा अभिग्रहविशेषः। सा च भिक्षुप्रतिमा 'एगेणं राइंदिघसएणं' एकेन रात्रिन्दिवशतेन, दश दशभिर्गुणिताः भवति शतमेकं रात्रिन्दिवानामिति रात्रिदिवानामेकशतेन, तथा शतसंख्यकदिवसेषु 'अद्धछटेहि य भिक्खासएहि' अर्द्धषष्ठैश्च भिक्षाशतैः, अर्द्ध पष्ठं शतं भिक्षाणां यत्र तानि अर्द्धषष्ठानि भिक्षाशतानिः, तैः पञ्चाशदधिकैः पञ्चभिः शतै रत्यर्थः (५५०), शतसंख्यकै रात्रिन्दिवैः, तत्संबन्धिभिः पञ्चाशदधिकपञ्चशत( ५५०)संख्यकैः भिक्षाप्रमाणैरेषा दशदशकिका भिक्षुप्रतिमा यथासूत्रं यथाकल्प यथामार्ग यथातथ्यं सम्यक्कायेन स्पर्शिता पालिता शोधिता तीरिता कीर्तिता आज्ञया अनुपालिता भवति । अथ भिक्षुप्रतिमानां कालप्रमाणं भिक्षाप्रमाणं तत्प्रमाणानयनविधिश्च प्रदर्श्यते, तथाहितत्र सप्तसप्तकिकायाः काल: एकोनपञ्चाशद् रात्रिन्दिवानि ४९ । अष्टाष्टकिकायाः प्रतिमायाः कालः चतुष्षष्टी रात्रिन्दिवागि ६४। नवनवकिकाया एकाशीती रात्रिन्दिवानि ८१। दशदशकिकायाः परिपूर्ण शतं रात्रिन्दिवानाम् १०० । सर्वप्रतिमानामधिकृतसूत्रचतुष्टयोपेतानां पृथक् पृथगेतावानेव भवति काल इति कालप्रमाणम् । ___ सम्प्रति भिक्षापरिमाणमाह-सप्तसप्तकिकायां भिक्षापरिमाणं षण्णवत्यधिकं शतम् (१९६) भिक्षाणां भवति । अष्टाष्टकिकायाम्-अष्टाशीत्यधिके द्वे शते (२८८) भिक्षाणां भवतः। नवनवकिकायां पञ्चोत्तराणि चत्वारि शतानि (४०५) । दशदशकिकायां प्रतिमायामर्द्धषष्ठानि पञ्च शतानीति पञ्चाशदधिकानि पञ्च शतानि (५५०) भिक्षाणां भवन्ति । भिक्षाप्रमाणानयनविधिः प्रदश्यते - तथाहि-सप्तसप्तकवर्गदिवसाः एकोनपञ्चाशत् (४९) ते मूलदिवसैः सप्तभिर्युताः क्रियन्ते, ततो जाताः षट्पञ्चाशत् (५६)। तेऽर्धीक्रियन्ते, ततो जाता अष्टाविंशतिः (२८) । सा मूलेन सप्तकेन गुण्यते, तदा-आगतं षण्णवत्यधिकं शतम् (१९६) । सप्तसप्तकिकाप्रतिमाभिक्षापरिमाणम् ।
SR No.006364
Book TitleAgam 26 Chhed 03 Vyavahara Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages346
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy