________________
व्यवहारसूत्रे दत्तयः २८ । पञ्चमे सप्तके पञ्च पञ्च दत्तयः ३५, षष्ठे सप्तके षट् षट् दत्तयः ४२ । सप्तमे सप्तके सप्त सप्त दत्तयो गृह्यन्ते ४९। इति सप्तभिः सप्तकैरेकोनपञ्चाशदिवसैर्जायते. षण्णवत्यधिकमेकं शतम् (१९६) भिक्षादत्तीनामिति ।
॥ सप्तसप्तकिकाभिक्षुप्रतिमाकोष्टकम् ॥
संकलनम्
७ ।
दत्तिः
।
दत्तिः
दत्तिः
।
Im]
३
।
३
m|
दत्तिः
४
२८
0|
दत्तिः
5
|
दत्तिः
४२
दत्तिः
४९
संकलनम्
संकलनम् २८ | २८ | २८ | २८ | २८ | २८ | २८ | १९६
एषा च सप्तसप्तकिका भिक्षुप्रतिमा 'अहासुत्तं' यथासूत्रम्-सूत्रमनतिक्रम्य यद् भवतितत् , सूत्रोक्तप्रकारान् अनतिक्रम्येत्यर्थः । 'अहाकप्पं' यथाकल्प-कल्पमनतिक्रम्य साधुकल्पानुसारमित्यर्थः । 'अहामग्गं' यथामार्गम् मार्गः-ज्ञान-दर्शन-चारित्ररूपः, तमनतिक्रम्य यद् भवति तत् , ज्ञान-दर्शन-चारित्राणामविराधनेनेत्यर्थः । 'अहातच्चं' यथातथ्यं , तथ्यं-वास्तविकता, तद् अनतिक्रम्य-एकान्ततः सूत्रानुसारेण संपादितं सत्यतयेत्यर्थः । 'सम्मकाएणं' सम्यग्यथार्थतया कायेन कायग्रहणात् त्रिविधेनापि मनोवाक्काययोगेन ‘फासिया' स्पर्शिताविराधनारक्षणतः सेविता, 'पालिया'पालिता सम्यगूरूपेण परिपालनात् , अत एव 'सोहिया' शोधिता ईषदपि अतिचाराभावत् 'तीरिया' तारिता तीरं-पारं-नीता-प्राप्ता पर्यन्तं नीतेत्यर्थः, 'किट्टिया' कीर्तिता-आचार्याणां पुरतः कथिता यथा मया प्रतिमा समाप्तेति, 'आणाए अणुपा. लिया भवई' आज्ञया-तीर्थकराज्ञया-तीर्थकराज्ञानुसारेण अनुपालिता-सम्यगूरूपेण प्रतिपालिता भवति सा सप्तसप्तकिका भिक्षुप्रतिमा ॥ सू० ३५ ॥