________________
व्यवहारसूत्रे
छाया - अष्टकुक्कुटाण्डप्रमाणमात्रान् कवलान् आहारमाहरन् निर्ग्रन्थोऽल्पाहार:, द्वादशकुक्कुटाण्डप्रमाणमात्रान् कवलान् आहारमाहरन् निर्ग्रन्थोऽपार्घाऽवमौदर्यः, षोडशकुक्कुटाण्डप्रमाणमात्रान् कवलान् आहारमाहरन् निर्ग्रन्थो द्विभागप्राप्तः, चतुर्थिशतिकुक्कुटाण्डप्रमाणमात्रान् कवलान् आहारमाहरन् निर्ग्रन्थस्त्रिभागप्राप्तः स्यादवमौदर्यः, एकत्रिंशत्कुक्कुटाण्डप्रमाणमात्रान् कवलान् आहारमाहरन् निर्ग्रन्थः किञ्चि दूनाsanौदर्यः, द्वात्रिंशत् कुक्कुटाण्डप्रमाणमात्रान् कवलान् आहारमाहरन् निर्ग्रन्थः प्रमाणप्राप्तः । इत एकेनाऽपि कवलेन ऊनकमाहारमाहरन् श्रमणो निर्ग्रन्थो नो प्रकाम भोजी - ति वक्तव्यं स्यात् ॥ सू० १६ ॥
॥ व्यवहारे अष्टम उद्देशकः समाप्तः ॥ ८ ॥
१९८
भाष्यम् – 'अद्वकुक्कुडिप्पमाणमेत्ते कवले' अष्टकुक्कुटाण्डप्रमाणमात्रान्-कुक्कुटाण्डप्रमाणान्, यः पुरुषस्य मुखे क्षिप्तः सन् सुखेन चर्यते तथा गलान्तराळे अविलग्न एव गले प्रविशति एतावत्प्रमाणमेव कवलमश्नीयादित्येतावत्प्रमाणः कवलः कुक्कुटाण्डशब्देनोपमीयते यतः कुक्कुट्या अण्डकमाकारप्रमाणेन सदा सर्वदा समानमेव भवति न न्यूनं नाधिकमिति तत्प्रमाणेन गृहीतम्, अन्यत्रापि चान्द्रायणवतादौ कवलोऽनेनैव शब्देनोपमितो लभ्यते उपमामात्रमेवेति । यस्य प्रमाणप्राप्त आहारो यावत्परिमितो भवेत्तस्य द्वात्रिंशत्तमो भागः कवलशब्देन गृह्यते ततस्तादृशान् अष्टौ कवान् ' आहारं आहारेमाणे' प्रमाणप्राप्ताहाराच्चतुर्थीशरूपम् अहरन् - आहारं कुर्वन् 'णिग्गंथे' निर्ग्रन्थः श्रमणः 'अप्पाहारे ' अल्पाहारो भण्यते । 'दुवालसकुक्कुडिअडप्पमाणते कवले आहारं आहारे माणे' कुक्कुटाण्डप्रमाणमात्रान् द्वादश कवलान् आहार- प्रमाणप्राप्ताहारचतुर्थांशतः किञ्चिदधिकं द्वादशकवलप्रमितम् अहरन् 'णिग्गंथे' निर्ग्रन्थः ' अवड्ढोमोयरिए' अपार्घावमौदर्यः कथ्यते । 'सोलसकुक्कुडिअंडप्पमाणमेत्ते कवले आहारं आहारेमाणे' षोडशकुक्कुटाण्डप्रमाणमात्रान् कवलानाहारं - प्रमाणप्राप्तादर्धम् आहरन् - आहारं कुर्वन् 'णिग्गये' निर्मन्थः 'दुभागपत्ते' द्विभागप्राप्तः - द्विभागेन ऊनोदरः कथ्यते । 'चउवीसंकुक्कुडिअन्डप्पमाणमेचे कवले' चतुर्विंशतिकुक्कुटाण्डप्रमाणमात्रान् कवलान् 'आहारं आहारेमाणे णिग्गंथे' आहारमाहरन् - कुर्वन् निर्ग्रन्थः 'तिभागपत्ते सिया ओमोयरिए' त्रिभागप्राप्तः स्यात् ranौदर्य इति कथ्यते । ' एगती संकुक्कुडिअंडप्पमाणमेत्ते कवले आहारं आहारेमाणे ' एकत्रिंशत् कुक्कुटाण्डप्रमाणमात्रान् कवलान् आहारमाहरन् 'णिग्गंथे' निर्ग्रन्थः 'किंचूणोमोयरिए' किञ्चिदूनाऽवमौदर्यः कथ्यते । 'बत्ती संकुक्कुडिअंड प्पमाणमेत्ते कवले आहारं आहारेमाणे' द्वात्रिंशत् कुक्कुटाण्डप्रमाणमात्रान् कवलान् आहारमाहरन् 'णिग्गथे' निर्ग्रन्थः ' प्रमाणपत्ते' प्रमाणप्राप्तः कथ्यतेः । एत्तो एगेणवि कवलेणं ऊणगं आहारं इतः - द्वात्रिंशत्कुक्कु