________________
१८६
व्यवहारसूत्रे
यस्मिन् गृहे ऋतुबद्धेकाले निवसति तस्मिन् गृहे 'ताए पसाए' तस्मिन् प्रदेशे यस्मिन् गृहप्रदेशे तिष्ठति तस्मिन् प्रदेशे - अन्तर्बहिरादिलक्षणे 'ताए ओवासंतराए' तस्मिन् अवका शान्तरे - द्वयोर्मध्यभागलक्षणे 'जमिणं जमिणं सेज्जासंथारगं लभेज्जा' यदिदं यदिदं शय्यासंस्तारकम् - शय्या च संस्तारकश्चेति समाहारे शय्यासंस्तारकम् यद् यत् शयनोपयोगि स्थानं मदभिलषितं लभेत प्राप्नुयात् 'तमिणं तमिणं ममेव सिया' तदिदं तदिदं सर्वं ममैव स्यात् - भवतु इति ब्रूते श्रमणस्तदा यदि 'थेरा य से अणुजाणेज्जा' स्थविराश्च गच्छनायका आचार्याः तस्याशठभावम् अवगम्य, अशठेभावो नाम - मम श्लेष्मा प्रस्पन्दते स्वपतो मम श्लेष्माधिक्यं जायते अतो निर्वातस्थानमनुजानीत, अथवा अमुकं साधुमहं सदैव प्रतिपृच्छामि तत एतत्पार्श्वे मम शय्या संस्तारकभूमिं यूयमनुजानीत, इत्यादिविषये तस्य ऋजुभावं ज्ञात्वा 'अणुजाणेज्जा' अनुजानीयुः - आज्ञां दद्युः, यथा - ' यदिदं यदिदं त्वया लब्धं तत्सर्वं शय्यासंस्तारकं तवैव भवतु ' तदा तत्सर्वं शय्यासंस्तारकम् ' तस्सेव सिया' तस्यैव - यो हि श्रमण एवं ब्रूते - ममेदं सर्वं तस्यैव तत् शय्यासंस्तारकं स्यात् भवेत् । अथ यदि कदाचित् याचकस्य श्रमणस्य पूर्वोक्तविषये शठभावो लक्ष्यते तदा 'थेरा य से णो अणुजाणेज्जा' स्थविराश्च तस्य श्रमणस्य शठभावेन कथनात् नो अनुजानीयुः - नाज्ञां दधुः तदा एवं से कप्पर अहारायणियाए' एवम् स्थविरा - ज्ञाया अभावे तस्य कल्पते यथारात्निकतया : रत्नाधिकमर्यादया यल्लभ्यते तत् 'सेज्जासंथारगं पडिग्गाहिए' शय्यासंस्तारकं प्रतिग्रहीतुम् स्वीकत्तु कल्पते, न तत्रेतस्ततः कर्त्तव्यमिति भावः । ऋतुबद्धे काले वर्षाकाले वा गृहे वसन् साधुः तत्र गृहे तत्प्रदेशे तदवकाशान्तरे वा यद् यत् शय्यासंस्तारकं लभते तत्तत् सर्वं स्थविरानुज्ञयैव लघुज्येष्ठादिमर्यादया प्रतिग्रहीतुं कल्पते न तु स्वेच्छयेति तात्पर्यम् ॥ सू० १ ॥
पूर्वं शय्या संस्तारकस्थानविधिरुक्तः सम्प्रति शय्यासंस्तारकगवेषणविधिमाह - 'से य'
सूत्रम् —से य अहालहुस्सगं सेज्जासंथारगं गवेसेज्जा जं चक्किया एगेणं हत्थेणं ओगिज्झ जाव एगाहं वा दुयाहं वा तियाहं वा परिवहित्तए एस मे हेमंतगिम्हासु भविस्सइ ॥ सू० २ ॥
छाया- - स च यथालघुस्वकं शय्यासंस्तारकं गवेषयेत् यत् शक्नुयात् एकेन हस्तेनाऽवगृह्य यावदेकाहं वा द्वयह वा त्र्यहं वा अध्वानं परिवोढुम् एतन्मे हेमन्त -- ग्रीष्मेषु भविष्यति ॥ सू० २ ॥