SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ wwwwww भाष्यम् उ० ६ सू० १८ अगोतार्थानां पृथक्प्राकारादिवसतिवासविधिः १५५ पूर्वसूत्रे अगीतार्थानामे कप्राकारैकद्वारादिविशिष्टवसतिमधिकृत्य निषेधः कृतः, सम्प्रति अनेकद्वारानेकपाकारविशिष्टवसतौ गीतार्थनिश्रिता ये वसन्ति तानधिकृत्य प्रदर्शयितुमाह'से गामंसि वा' इत्यादि। सूत्रम्-से गामसि वा जाव रायहाणिसि वा अभिनिव्वगडाए अभिनिदुवाराए अभिनिक्खमणपवेसाए नो कप्पइ बहूणंपि अगडसुयाणं एगयो वत्थए, अस्थि य इत्थ ण्हं केइ आयारपकप्पधरे, जे तइयं रयणि संवसइ, नत्थि य इत्थ केइ छेए वा परिहारे वा, नत्थि य इत्य केइ आयारपकप्पधरे जे तइयं रयणि संवसइ सव्वेसिं तेसिं तप्पत्तियं छेए वा परिहारे वा ॥सू० १८ ॥ छाया-अथ ग्रामे वा यावद् राजधान्यां वा अभिनिवगडायाम् अभिनिद्वारायाम् अभिनिष्क्रमणप्रवेशायाम् नो कल्पते बहूनामपि अकृतश्रुतानाम् एकतो वस्तुम् , अस्ति चात्र कश्चिद् आचारप्रकल्पधरो यस्तृतीयां रजनी संवसति, नास्ति चात्र कश्चित् छेदो वा परिहारो वा, नास्ति चात्र कश्चिद् आचारप्रकल्पधरो यस्तृतीयां रजनी संवसति, तेषां सर्वेषां तत्प्रत्ययं छेदो वा परिहारो वा ॥ सू०१८॥ भाष्यम् – 'से गामंसि वा जाव रायहाणिसि वा' अथाऽनन्तरं ग्रामे वा अत्र यावत्पदेन नगरे वा खेटे वा, कर्बटे वा, मडम्बे वा, द्रोणमुखे वा, पट्टने वा (पत्तने वा) निगमे वा आश्रमे वा, संवाहे वा, संनिवेशे वा, इति संग्राह्यम् , प्रामादिराजधानीपर्यन्तेषु जननिवासस्थानेषु 'अभिणिन्वगडाए' अभिनिवगडायाम् , तत्राऽभि-प्रत्येकं पृथक् पृथक् नियता वगडा परिक्षेपो यस्यां सा अभिनिवगडा तस्यां पृथक् पृथक् परिक्षेपवत्यां वसतौ 'अभिनिदुवाराए' अभिनिद्वारायाम् प्रत्येकं पृथक् पृथग नियतद्वारवत्याम्, 'अभिणिक्खमगपवेसाए' अभिनिष्क्रमणप्रवेशायाम्, तत्राऽभि-प्रत्येकं पृथक् पृथग् निष्क्रमणं बहिर्गमनं प्रवेशोऽन्तर्गमनं निष्क्रमणप्रवेशमागों यस्यां सा-अभिनिष्क्रमणप्रवेशा तस्यां वसतो . 'नो कप्पई' नो कल्पते, 'बहूणंवि अगडसुयाणं' बहूनामनेकेषामपि अकृतश्रुतानाम्, न कृतानि-नाधीतानि श्रुतानिआचाराङ्गनिशोथादिसूत्रजातानि यैस्ते-अकृतश्रुताः अनधीतसूत्रार्थाः- अगीतार्था इत्यर्थः, तेषामकृतश्रुतानामनेकेषामपि 'एगयओ वत्थए' एकत एकत्र वस्तुं-निवासं कत्तुं न कल्पते इति, किं सर्वथैवाऽकृतश्रुतानाम् एकत्र वसतौ निवासो न कल्पते ? इति न, यदि तत्र तन्मध्ये कोऽपि-आचारप्रकल्पधरो विद्यते, तदा-तेषां तत्र गीतार्थस्य निश्रया एकत्र वासः कल्पते,
SR No.006364
Book TitleAgam 26 Chhed 03 Vyavahara Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages346
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy