________________
वृहत्कल्पसूत्रे नो कप्पइ रयहरणगोच्छगपडिग्गमायाए तिहिं कसिणेहिं वत्थेहिं आयाए संपव्वइत्तए, कप्पइ से अहापडिग्गहियाइं वत्थाई गहाय आयाए संपव्वइत्तए ॥ सू० १३॥
छाया-निर्ग्रन्थस्य खलु तत्प्रथमतया संप्रव्रजतः कल्पते रजोहरणगोच्छकप्रतिग्रहमादाय त्रिभिः कृत्स्नैर्वस्त्रैः आत्मना संप्रव्रजितुम् । स च पूर्वोपस्थितः स्यात् एवं तस्य नो कल्पते रजोहरणगोच्छकप्रतिग्रहमादाय त्रिभिः कृत्स्नैर्वस्त्रैः आत्मना संप्रवजितुम्. कल्पते तस्य यथाप्रतिगृहीतानि वस्त्राणि गृहीत्वा आत्मना संप्रवजितुम् ॥ सू०१३॥
चूर्णी-'निग्गंथस्स'इति । निम्रन्थस्य तत्प्रथमतया तत्-तेन साधुत्वेन प्रथमः तत्प्रथमः, तस्य भावस्तत्ता, तया पूर्वमदीक्षितस्य प्रथममेव दीक्षितुमुपस्थिततया संप्रव्रजतः प्रव्रज्यां गृह्णतः कल्पते रजोहरण-गोच्छक प्रतिग्रहम् , तत्र रजोहरणं प्रसिद्ध, गोच्छकं प्रमार्जनिका, प्रतिग्रहः पात्रम् , रजोहरणं च गोच्छकं च प्रतिग्रहश्चेति समाहारद्वन्द्वे रजोहरणगोच्छकप्रतिग्रहम् , तत् नूतनम् आदाय गृहीत्वा तदन्यैर्नूतनैस्त्रिभिः कृत्स्नैः, तत्र-चतुर्विशतिहस्तपरिमितमायामतः, एकहस्त्तपरिमितं च विष्कम्भतः, एतावत्प्रमाणकं वस्त्र कृत्स्नमुच्यते, तैः परिपूर्णैः अखण्डितैः वस्त्रैः 'थान' 'ताका' इति प्राचीनसमये प्रसिद्धैः, एकं कृत्स्नं वस्त्रं चतुर्विंशतिहस्तप्रमितमभूत् तादृशैस्त्रिमिः कृत्स्नैर्वस्त्रैः साधूनां द्वासप्ततिहस्तप्रमितवस्त्रग्रहणस्य कल्पत्वात्, तैः सह तानि त्रीणि गृहीत्वेत्यर्थः आत्मना स्वयं सप्रवजितुं कल्पते । एष विधिरगारितोऽनगारताग्रहणकालविषयो बोध्यः । अथ पूर्वप्रवजितस्य सामायिकचारित्रवतश्छेदोपस्थापनीयचारित्रग्रहणसमयस्य विधि प्रदर्शयति-से य पुव्वोबढिए' इत्यादि, ‘से य' स च प्रव्रज्यां प्रतिपत्तुकामो यदि पूर्वोपस्थितः पूर्वगृहीतसामायिकचारित्रः सन् छेदोपस्थापनीयचारित्रं ग्रहीतुकामः स्यात्, यद्वा अतिचारादिमूलगुणदोषापत्त्या पुनर्दीक्षार्थमुपस्थितः स्यात् तदा ‘एवं' एवं सति 'से' तस्य पूर्वोपस्थितस्य रजोहरणगोच्छकप्रतिग्रहं नूतनम् 'आयाए' आदाय गृहीत्वा एवं त्रिभिश्च कृत्स्नैः वस्त्रैः सह आत्मना स्वयं संप्रत्रजितुं नो कल्पते । तर्हि तस्य कया रीत्या कल्पते ? इति तद्विधिमाह-'कप्पइ' इत्यादि, कल्पते तस्य तादृशस्य पूर्वोपस्थितस्य छेदोपस्थंपनीयचारित्रग्रहणकामस्य यथाप्रतिगृहीतानि-यथा येन विधिना प्रतिगृहीतानि यानि पूर्व स्वीकृतानि वस्त्राणि तान्येव गृहीत्वा आत्मना स्वयं संप्रवजितुम् छेदोपस्थापनीयचारित्रं ग्रहीतुं कल्पते इति पूर्वेण सम्वन्धः । अयं भावः-यः पूर्व गृहस्थः स प्रथमतया प्रव्रज्यां गृह्णानि तस्य नूतनं रजोहरणादिकं त्रीणि कृत्स्नानि वस्त्राणि च गृहीत्वा प्रव्रजितुं कल्पते । यः पुनः पूर्वोपस्थितः पूर्व गृहीतसामायिकचारित्रः, यद्वा चारित्रदोषवशात् पुनर्महाव्रतोपस्थापनं स्वीक कामो भवेत् तस्य नूतनरजोहरणादिकं त्रीणि कृत्स्नानि वस्त्राणि च गृहीत्वा प्रव्रजितुं न कल्पते, किन्तु तस्य पूर्वप्रतिगृहीतान्येव वस्त्राणि गृहीत्वा कल्पते इति भावः। ननु यस्तत्प्रथमतया दीक्षा ग्रहीष्यति,