SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ चूणिभाष्यावचूरो उ० ३ सू० ९-१२ भिन्नाभिन्नवस्त्रग्रहणविधिः ६३ वार्यत्वात्सा कर्त्तुमुचितैव । एवं यथोक्तप्रमाणचोल पट्टादि वस्त्रधारणस्य भगवता समुपदिष्ठत्वा'तत्प्रमाणार्थं यतनया वस्त्रच्छेदने कोऽपि न दोषः शास्त्रे साधोः सकलक्रियाया यतनयैव करणीयत्वेन प्रतिपादनात् उक्तं च- दशवै० ४ अ० - जयं चरे जयं चिट्ठे, जयमासे जयं सए । जयं भुजंतो भासतो, पावकम्मं न बंधइ ॥ तस्मात् भिन्नवस्त्रधारणस्य भगवतानुज्ञातत्वाद् निर्ग्रन्थनिर्ग्रन्थीभिरभिन्नवस्त्रं न धारयितव्यं न परिभोक्तव्यम्, भगवदाज्ञापालने न कोऽपि दोषः 'आणाए मामगं धम्मं' इत्याचाराङ्ग वचनप्रामाण्यादिति ॥ सू० ८ ॥ श्रमणैर्वस्त्राणि कियन्ति किंप्रमाणानि चोपकरणत्वेन ग्रहीतव्यानि तत्राह भाष्यकार :'भिन्नाई' इत्यादि । भाष्यम् -- भिन्नाईं वत्थाई, उवगरणे कइ य धारणिजाई । थविरे कप्पे चउदस, साडगमाईणि णेयाई ॥ ६॥ छाया - भिन्नानि वस्त्राणि उपकरणे कति च धारणीयानि । स्थविरे कल्पे चतुर्दश, शाटकादीनि ज्ञातव्यानि ॥ ६ ॥ अवचूरी - 'भिन्नाई' इति । अभिन्नानि वस्त्राणि श्रमणैर्न ग्रहीतव्यानि नैव च धारनीति भगवता प्रतिषिद्धं तेनायाति - भिन्नानि धारणीयानि तानि श्रमणानामुपकरणे उपकरणनिश्रायां कति–कतिसंख्यकानि धारणीयानि ? इति प्रश्ने प्राह - अत्रास्मिन् स्थविरे कल्पे साधूनां चतुर्दश वस्त्राणि शाटकादीनि उपकरणे ज्ञातव्यानि तानीमानि - शाटकत्रयम् ३, चोलपट्टकः ४, आसनम् ५, मुखवस्त्रिका ६, प्रमार्जिका ७, पात्राणामञ्चलत्रयम् १०, भिक्षाघानी ११, माण्डवस्त्रम् १२, रजोहरण दण्डाssवरकवस्त्रं 'निषद्या' इति समयभाषाप्रसिद्धम् १३, चतुर्दशंच धावनजला दिगालनवस्त्रम् १४, इति । एतानि चतुर्दश उपकरणानि स्थविरकल्पिकानां कल्पन्ते । गृहस्थैः स्वनिमित्तं भिन्नं वस्त्रं समादाय तन्मध्याद् यथोक्तप्रकारेण चतुर्दशोपकरणानि यतनया विभिद्य करणीयानि स्वस्वप्रमाणेन उपकरणविधायनस्य भगवताऽनुज्ञातत्वादिति ॥ ६ ॥ पूर्वमभिन्नवस्त्रधारणे निषेधः प्रतिपादितः, साम्प्रतं स्पष्टप्रतिपत्त्यर्थं तद्विपरीतं भिन्नवस्त्रधारणसूत्रमाह - 'कप्पइ० भिन्नाई" इत्यादि । सूत्रम् - कप्पर निग्गंथाण वा निग्गंथीण वा भिन्नाईं वत्थाई धारितए वा परिहरित वा ॥ सू० ९ ॥ छाया - कल्पते निर्ग्रन्थानां वा निर्ग्रन्थोनां वा भिन्नानि वस्त्राणि धर्तुं वा परि ॥०९ ॥ चूर्णी - 'कप' इति । कल्पते निर्ग्रन्थानां वा निर्मन्थीनां वा भिन्नानि छेदितानि गृहस्थैः स्वनिमित्तं स्फाटितानि वस्त्राणि धर्त्तु परिहर्त्तु वा । अन्यत्सर्वं पूर्वसूत्रवदेव विज्ञेयम् ॥ सू०९ ॥
SR No.006363
Book TitleAgam 25 Chhed 02 Bruhatkalpa Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages210
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy