________________
बृहत्कल्पसूत्रे परतुनो निश्चयकरणम् ९, ततश्चान्ते शनैः शनैरेवंकरणपूर्वकं तया सह संपर्कसाधनम् इति दशमं स्थानम् १०, एतानि दशापि स्थानानि निर्ग्रन्थैः परिहरणीयानि नानाविधदोषसंघातसंभवादिति ॥ १॥ कारणे गमनेऽपि कार्य कृत्वा शीघ्र पुनः प्रत्यावर्तेत, अधिकस्थितौ अधिकरणसंभवात् ॥ २॥ कारणवशादपि साध्वीनामुपाश्रये विधिना गन्तव्यम् न त्वविधिना, विधिश्च यथा-गणचिन्ताकारको गणधरो यदि वस्त्रादिदानादिनिमित्तं ग्लानायाः शाताप्रच्छनार्थ वा गच्छेत्तदा त्रिषु स्थानेषु नैषेधिकी कुर्यात्-अग्रद्वारे १, मध्यभागे २, आसन्नभागे च ३ । नैषेधिकीत्रयं कृत्वा तत्र प्रविशेत् तेन उपाश्रयस्थिताः साध्व्यः वस्त्रावरणादिना सावधाना भवेयुः । अत्र कारणं विधि चाक्रिय चत्वारो भङ्गा भवन्ति,तथाहि-अकारणे अविधिना १, अकारणे विधिना २, कारणे अविधिना ३, कारणे विधिना ४ । अत्र चतुर्थो भङ्गः शुद्धः समाचरणीयो लभ्यते । पुनरपि सहिण्वसहिष्णुश्रमणश्रमणीशब्दानाश्रित्य चत्वारो भङ्गा भवन्ति तथाहि-श्रमणी असहिष्णुः श्रमणोऽपि असहिष्णुः १, श्रमणी-असहिष्णुः श्रमणः सहिष्णुः २, श्रमणी सहिष्णुः श्रमणः असहिष्णु: ३, श्रमणी सहिष्णुः श्रमणोऽपि सहिष्णुः ४ । एष्वपि चतुर्थो भङ्गः कारणे ग्राह्यः ॥ निर्ग्रन्थस्य साध्वीनामुपाश्रये गमनस्यान्यान्यपि कारणानि भवन्ति,तेषूपस्थितेषु निर्ग्रन्थस्य तत्र पूर्वोक्तशुद्धभङ्गानुसारेण गमनं कल्पते, तानि यथा-उपाश्रयस्य संस्तारकस्योपधेर्वा वितरणार्थम् १, संयमे सीदन्तीनां परिपहत्रस्तानां स्थिरीकरणार्थम् २, प्रतिश्रये अस्वाध्यायिके सति श्रुतस्योदेशमनुज्ञा वा विधातुम् ३, तासां परस्परसंजाताधिकरणस्य व्युपशमनार्थम् ४, प्रवर्त्तिन्यां कालधर्मप्राप्तायां सत्यां गणचिन्तार्थम् शेषसाध्वीनां संसारस्वरूपप्रदर्शनपूर्वकं धर्मोपदेशेनाश्वासनार्थ वा ५, ग्लानाया औषधभैषज्यादिप्रदानार्थम् ६, उपाश्रयेऽग्निना दग्धे जलपूरेण प्लाविते वा तव्यवस्थाकरणार्थम् ७, साध्वीनां देवमानुपतैरेश्चोपसर्गशमनार्थम् ८, भक्तप्रत्याख्यानाद्यनशनप्रतिपन्नायाः परिकर्मजिज्ञासाथै चेति ९ । एतादृशेध्वन्येष्वपि कारणेषूत्पन्नेषु श्रमणीनामुपाश्रये श्रमणानां गन्तुं कल्पते, तत्र भगवदाज्ञातिक्रमणदोषाभावात् ॥ ३ ॥
पूर्व निर्ग्रन्थीनामुपाश्रये निर्ग्रन्थानां स्थानादिकरणं निषिद्धम् , साम्प्रतं तद्वैपरीत्येन निम्रन्थीनां निम्रन्थोपाश्रये तान्येव स्थानादीनि निषेधयितुमाह-'नो कप्पइ निग्गंथीणं' इत्यादि ।
सूत्रम्-नो कप्पइ निग्गंथीणं निग्गंथउवस्सयंसि चिद्वित्तएवा जाव काउन्सग्गं करेत्तए ठाणं वा ठाइत्तए ॥ सू०२॥
छाया-नो कल्पते निम्रन्थीनां निर्ग्रन्थोपाश्रये स्थातुं वा यावत् कार्योत्सर्ग कम् िस्थानं वा स्थातुम् ॥ सू० २ ॥
चूर्णी-'नो कप्पई' इति । यथा पूर्व निर्ग्रन्थानां निर्ग्रन्ध्युपाश्रयेऽवस्थानादि निषिद्धं तथैवात्र निम्रन्थीनां निर्ग्रन्थोपाश्रयेऽवस्थानादि कत्तुं न कल्पते' इति प्रतिपादितम् । यदि ग्लानसाधुशरीरसमाधिजिज्ञासाथ गणचिन्ताकारकगणघरादुपध्यादिमार्गणार्थ वा निम्रन्थी साधूपाश्रये गच्छेतदा कारणविधिभङ्गप्रदर्शितशुद्धभङ्गमपेक्ष्य नैषेधिकीत्रयपूर्वकं गच्छेत् । एवं असहिष्णु-सहिष्णु- भङ्गे