________________
चूर्णिभाष्यावचूरी उ०-२ सू० १७-२० शय्तातरपिण्डग्रहणाऽग्रहणविधिः ४९
छाया-सागारिकस्य आहृतिका सागारिकेण प्रतिगृहीता, तस्याः दद्यात् नो तस्य कल्पते प्रतिग्रहीतुम् ॥सू० १७॥ सागारिकस्य आहृतिका सागारिकेण अप्रतिगृहीता तस्याः दद्यात् एवं तस्य कल्पते प्रतिग्रहीतुम् ॥ सू० १८॥
___ चूर्णी-'सागारियस्स' इति । सागारिकस्य-शय्यातरस्य आहृतिका आहियतेदातुमानीयते या सा आहृतिका अन्यगृहादागता प्रहेणकरूपा उपायनप्राभृतादिपदवाच्या 'परोसा' इति भाषाप्रसिद्धा, या अन्यस्मात् स्वजनादिगृहात् समर्पयितुं शय्यातरगृहे समागता भवेत् सा यदि सागारिकेण प्रतिगृहीता-स्वीकृता तस्याः तद्गताशनादिमध्यात् अशनादिकं साधवे दद्यात् शय्यातरोऽन्यो वा कोऽपि तदशनादिकं तदा 'से' तस्य भिक्षार्थमागतस्य साधोः प्रतिग्रहीतुं नो कल्पते, तस्मिन् संजातशय्यातरस्वत्वत्वात् ॥सू०१७॥ अथ तद्वैपरीत्ये कल्पते इति तद्विधिं प्रदर्शयति'सागारियस्स आहडिया' इत्यादि । सागारिकस्य गृहे समानीता आहृतिका यदि तेन सागारिकेण अप्रतिगृहीता-अस्वीकृता भवेत् तदा तस्याः-तद्गताशनादितोऽन्यः शय्यातरादितर आहृतिकावाहकोऽन्यो वा दद्यात् ‘एवं' अनेन विधिना दीयमानमशनादि से' तस्य भिक्षार्थ समुपस्थितस्य साधोः प्रतिग्रहीतुं कल्पते, तस्मिन् असंजातशय्यातरस्वत्वत्वादिति ॥ सू० १८ ॥
___ पूर्व सागारिकगृहागगताऽऽद्वतिकाया अशनादेर्ग्रहणाग्रहणविधिः प्रोक्तः, साम्प्रतं सागारिकगृहादन्यत्रगतनिहृतिकाया अशनादेग्रहणाग्रहणविधिमाह-'सागारियस्स नीहडिया' इत्यादि ।
सूत्रम-सागारियस्स नीहडिया परेण अपडिग्गहिया तम्हा दावए नो से कप्पइ पडिग्गाहित्तए । सागारियस्स नीहडिया परेण पडिग्गहिया तम्हा दावए एवं से कम्पइ पडिग्गाहित्तए ॥ सू० १९॥
छाया-सागारिकस्य निर्दृतिका परेण अपरिगृहीता तस्याः दद्यात् नो तस्य कल्पते प्रतिग्रहीतुम् ॥ सागारिकस्य निर्दृतिका परेण परिगृहीता तस्याः दद्यात् एवं तस्य कल्पते प्रतिग्रहीतुम् ॥ सू० १९॥
चूर्णी-'सागारियस्स' इति । सागारिकस्य शय्यातरस्य निर्वृतिका निह्रियते-दातुमन्यत्र नीयते सा निर्हृतिका सागारिकगृहाद् अन्यस्मै स्वजनादिकाय दातुं बहिर्नीता स्वजनादिगृहे प्राप्ता तत्र परेण तेन स्वजनादिना अपरिगृहीता-अस्वीकृता शय्यातरसत्कैव स्थिता तस्याः तन्मध्यात् कोऽपि शय्यातरोऽन्योऽपि कश्चित् अशनादि तत्र तत्क्षणसमागताय साधवे दद्यात् तदशनादि 'से' तस्य साधोः प्रतिग्रहीतुं नो कपते, तस्मिन् शय्यातरस्वत्वस्यानिर्मुक्तत्वात् । अथ तद्वैपरोत्ये ग्रहणविधिमाह-'सागारियस्स नीहडिया' इत्यादि । सागारिकस्य निर्हतिका सागारिकगृहादबहिर्निर्गता स्वजनादिगृहे संप्राप्ता सा निर्दृतिका यदि परेण स्वजनादिना प्रतिगृहीता-स्वीकृता