________________
बृहत्कल्पसूत्रे
दर्शनचारित्रवृद्धि संभवः, इति बुद्धया यथावसरं तत्रापि श्रमणश्रमणीनां गन्तुं कल्पते, इत्यपवादपदसंक्षेपार्थः । सुधर्मा स्वामी उपसंहरति - 'त्ति बेमि' इति, यथा भगवन्मुखात् श्रुतं तथैव ब्रवीमि - कथयामि न तु स्वबुद्धयेति ॥ सू० ४९ ॥
1
इति श्री - विश्वविख्यात - जगद्वल्लभ - प्रसिद्धवाचक - पञ्चदशभाषाकलितललितकलापालापकप्रविशुद्ध गद्यपद्यनैकग्रन्थनिर्मापक - वादिमानमर्दक- श्री शाहू छत्रपति कोल्हापुरराज प्रदत्त" जैनाचार्य " - पद भूषित - कोल्हापुरराजगुरु - बालब्रह्मचारि - जैनाचार्य - जैनधर्म - दिवाकर - पूज्यश्री - घासीलालव्रतिविरचितायां "बृहत्कल्पसूत्रस्य" चूर्णि - भाष्या - डवचूरीरूपायां व्याख्यायां प्रथमोदेशकः समाप्तः ॥ १ ॥