SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ बृहत्करूपरचे तमुपसर्गयति, 'कोऽत्र मां पश्यती' ति कृत्वा एकाकिनो मनो वा भिद्यते, इत्यादिना संयमविराधना । रात्रौ बहिर्गतमेकाकिनं साधुं दृष्ट्वा तस्करास्तदुपधिमपहरेयुः, ग्रामारक्षका वा एकाकिनं रात्री दृष्ट्वा चौरोऽयमिति बुद्धया ग्रहणाकर्षणादिकं वा कुर्युः, श्वापदादिभिर्वा हन्येत, श्रामण्यसीदितः पलायनप्रतीक्षक एकाकित्वेन पलायेत, रात्रौ बहिः कायिकी प्रतिष्ठापयन् वायुप्रकोपेन मूर्छितः सन् भूमौ प्रपतेत् म्रियेत वा, इत्यादिप्रकारेण आत्मविराधना भवति तस्मात् नैकाकिना श्रमणेन रात्रौ बहिर्भूमौ गन्तव्यम् , अपितु एकेन द्वाभ्यां वा सह कायिक्याद्यर्थ रात्रौ बहिर्गन्तव्यं, तेन पूर्वोक्तपरिस्थितौ तस्य साहाय्यं भवेदिति भावः ॥ स० ४७ ॥ पूर्व निर्ग्रन्थस्य रात्रौ बहिर्गमनविधिः प्रतिपादितः, साम्प्रतं तमेव विधि निर्ग्रन्थ्यर्थ प्रतिपादयितुमाह-'नो कप्पइ० एगाणियाए' इत्यादि। सूत्रम्-नो कप्पइ निग्गंथीए एगाणियाए राओ वा वियाले वा बहिया बियारभूमि वा विहारभूमि वा निक्ख मित्तर वा पविसित्तए वा । कप्पइ से अप्पविदयाए वा अप्पतइयाए वा अप्पचउत्थीए वा राओ वा वियाले वा बहिया वियारभूमि वा विहारभूमि वा निक्खमित्तए वा पविसित्तए वा ॥ सू० ४८ ॥ छाया-नो कल्पते निर्ग्रन्थ्या एकाकिन्या रात्रौ वा विकाले घा बहि विचारभूमि वा विहारभूमि वा निष्क्रमितुं वा प्रवेष्टुं वा कल्पते तस्या आत्मद्वितीयावा वा आत्मतृतीयाया वा आत्मचतुर्थ्या वा रात्रौ पा विकाले वा बहिर्विचारभूमि वा विहारभूमि वा निष्क्रमितुं वा प्रवेष्टुं वा ॥९० ४८ ॥ चूर्णी-'नो कप्पई' इति । इदं सूत्रं निर्ग्रन्थसूत्रवदेव व्याख्येयम् , नवरं निर्ग्रन्थसूत्रे निम्रन्थस्य आत्मद्वितीयस्य आत्मतृतीयस्य रात्रौ बहिर्गमनं कल्पते इति प्रोक्तम् , अत्र तु निम्रन्थीसूत्रे आत्मचतुर्थ्या वा रात्रौ बहिर्गतुं कल्पते, इति प्रोक्तम् , एतावानेव विशेषः शेषं पूर्वसूत्रवदेवेति । निर्ग्रन्थ्या रात्रौ एकाकिन्या बहिर्गमनेऽनेके दोषाः संयमात्मविराधनादिकाः संभवेयुः, तथाहि-एकाकिनी बहिर्गतां दृष्ट्वा लम्पटः कोऽपि पुरुष उपसर्गयेत् , तत्प्रार्थनायां स्वमनी वा भिद्यते 'कोऽत्र मां पश्यती' ति कृत्वा तमनुमोदते, इत्यादिरूपेण संयमविराधना । आत्मविराधना प्रायः पूर्वोक्तैव रात्रौ गर्तादौ प्रपतेत् , मूर्छिता वा भवेत् , इत्यादिकाऽऽत्मविराधना भवति, अतो निर्ग्रन्थ्या एकया द्वाभ्यां तिसृभिश्च सहितया रात्रौ बहिर्गन्तव्यम्, किन्तु नैकाकिन्या रात्रौ बहिर्गन्तव्यम् , एकाकिन्या रात्रौ बहिर्गमने आज्ञाभङ्गानवस्थामिथ्यात्वादयोऽनेके दोषाः समापधेरन्निति ॥ सू०४८॥
SR No.006363
Book TitleAgam 25 Chhed 02 Bruhatkalpa Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages210
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy