________________
हत्कल्प छाया-निर्ग्रन्थी च खलु गाथापतिकुलं पिण्डपातप्रतिक्षया अनुप्रविष्टां कोऽपि वस्त्रेण वा कम्बलेन वा पादप्रोञ्छनेन वा उपनिमन्त्रयेत्, कल्पते तस्याः सागारकृतं (साकारकृतं वा) गृहीत्वा प्रवर्तिनीपादमूले स्थापित्त्वा द्वितीयमपि अवग्रहम् अनुशाप्य परिहारं परिहर्तुम् ॥ सू० ४१॥ निर्ग्रन्थीं च खलु विचारभूमि वा विहारभूमि वा निष्कान्ती सती कोऽपि वस्त्रेण वा प्रतिग्रहेण वा कम्बलेन वा पादप्रोञ्छनेन वा उपनिमन्त्रयेत् कल्पते तस्या सागारकृतं (साकारकृतं वा) गृहीत्वा प्रवर्तिनीपादमूले स्थापयित्वा द्वितीयमपि अवग्रहम् अनुज्ञाप्य परिहारं परिहर्तुम् ॥ सू० ४२॥
___ चूर्णी –'निग्गंथिं च णं गाहापइकुलं' इत्यादि, तथा 'निग्गंथिं च णं वियारभूमि वा' इत्यादि च सूत्रद्वयमपि निग्रन्थसूत्रावदेव व्याख्येयम्, नवरं विशेषस्त्वयम्-यत् निम्रन्थसूत्रद्वये. 'आयरियपायमूले ठवित्ता, आचार्यपादमूले स्थापयित्वा' इत्युक्तम् , अत्र निम्रन्थीसूत्रद्वये च पवत्तणीपायमूले ठवित्ता' 'प्रवत्तिनीपादमूले स्थापयित्वा' इति व्याख्येयम् तत्र । प्रवर्तिनीतिप्रवर्त्तयति-प्रेरयति स्वनिश्रागतसाध्वीः श्रुतचारित्रधर्मे या सा प्रवत्तिनी-दीक्षादात्री, पर्यायज्येष्ठा वा निर्ग्रन्थीति । शेषं सर्व निम्रन्थसूत्रवदेव व्याख्येयमिति ॥ सू० ४२॥
अत्राह भाष्यकार—'सच्छंद' इत्यादि । भाष्यम्--सच्छंदं नो गिण्हे, नो परिभुजे य वत्थपत्ताई जं आयरियपदत्तं, तं गिण्हे तं च परिमुंजे ॥९०२९॥ एवं निग्गंथीणं, पवत्तिणीदत्तवत्थपत्ताई । कप्पइ किंतु सयं तं, नो गिण्हे नेव परिभुजे ॥३०॥ छाया-स्वच्छन्दं नो गृहीयात्, नो परिभुञ्जीत च वस्त्रपात्रादि । यद् आचायप्रदत्तं, तद् गृह्णीयात् तच्च परिभुञ्जीत ॥२९॥ एवं निर्ग्रन्थीनां, प्रवत्तिनादत्तवस्त्रपात्रादि । कल्पते किन्तु स्वयं तद् नो गृह्णीयात् नैव परिभुञ्जीत । ३०॥
अवचूरी- 'सच्छंद' इति । निम्रन्थः वस्त्रपात्रादि गृहस्थगृहाद् गृहस्थहस्ताच्च स्वच्छंद स्वच्छन्दतया यथारुचि नो गृह्णीयात् , एवं गृहीतं च तद् नो नैव परिभुञ्जीत । किं कुर्यात् ! तत्राह-गृहीतं तद् वस्त्रादिकं साकारकृतमिति कृत्वा 'नेदं वस्त्रं मम, किन्तु आचार्यसत्कं प्रातिहारिकं वा अस्ति' इति कथनपूर्वकमादाय आचार्यसमीपे स्थापयेत्, तत्र यद् वस्त्रादिकमाचार्यप्रदत्तं भवेत्-आचार्याः, उपाध्यायाः, पर्यायज्येष्ठा वा स्वेच्छया यद् वस्त्रादिकं दयुस्तद् गृह्णीयात्, विनयवन्दनपूर्वकं द्वितीयमवग्रहमनुज्ञाप्य स्त्रीकुर्यात् तच्चेति तदेव वस्त्रादिकं परिभुञ्जीत स्वकार्ये व्यापारयेदिति निग्रन्थकल्पः ॥ २९ ॥
___'एवं' इति । एवम् अनेनैव प्रकारेण निर्ग्रन्थीनां साध्वीनां प्रवत्तिनीप्रदत्तवस्त्रपात्रादि ब्रहीतुं परिभोक्तुं च कल्पते, किन्तु तद् वस्त्रपात्रादिकं स्वयं स्वेच्छया गृहस्थाद् नो गृह्णीयात् न स्वीकुर्यात