________________
चूर्णिमायावचूरी उ० १ सू० ३६
अधिकरणोपशमनविधिः २५, मृदुमुग्धहृदया भवन्ति, लोके च शीललुण्टाका विषयलोलुपा धूर्त्ता जना अनेकविधवचनचाटुत्वेन ता मोहयन्ति, बलात्कारं वा कुर्वन्ति, इत्यादिकारणवशात्तासां संबन्धिजनासन्नत्वेन निदोषे तादृशे उपाश्रयेऽपि वस्तुं कल्पते इति प्रोक्तम् ॥सू० ३५॥
अत्राह भाष्यकारः-'सीलस्स' इत्यादि । भाष्यम्--सी लस्स रक्खणहं, निग्गंथीणं पकप्पए तत्थ । अप्पडिबद्धे वासे,को तासिं रक्खणं कुज्जा ॥२५॥ छाया-शीलस्य रक्षणार्थ, निर्ग्रन्थीनां प्रकल्पते तत्र । अप्रतिबद्धे वासे, कस्तासां रक्षणं कुर्यात् ॥२५॥
अवचूरी--'सीलस्स' इति । निर्ग्रन्थीनां शीलस्य ब्रह्मव्रतस्य रक्षणार्थ रक्षानिमित्त तंत्र प्रतिबद्धोपाश्रये, तथा यत्र सम्बन्धिजनगाथापतिकुलमध्यमार्गेण गमनागमनयुक्ते उपाश्रये वा वस्तुमवस्थातुं प्रकल्पते युज्यते तत्र मूलगुणभूतब्रह्मव्र तरक्षायाः सुशक्यत्वात् । अन्यथा अप्रतिबद्धाधुपाश्रयवासे उपसर्गोत्पादकेभ्यो दुष्टजनेभ्यस्तासां रक्षणं कः कुर्यात् ! अतो निम्रन्थीनां प्रतिबद्धोपाश्रये वस्तुं कल्पते इत्युक्तम् ॥२५॥ । अत्र पूर्वापरसूत्रयोः सम्बन्धमाह भाष्यकारः-निग्गंथाण.' इत्यादि ।
भाष्यम्--निग्गंथाणमकप्पं, निग्गंथीणं च कप्पमिह वुत्तं । एयं असदहतो, करेज्ज जइ सोऽत्थ अहिगरणं ॥२६॥ तत्थ य किं कायव्वं, उवसमियव्वं च होइ अहिगरणं । एसो संबंधो इह, सुत्तेणं पुव्वभणिएणं ॥२७॥ छाया -निर्ग्रन्थानामकल्प्यं, निर्ग्रन्थीनां च कल्प्यमिहोक्तम् । पतद् अश्रद्दधानः कुर्यात् यदि सोऽत्र अधिकरणम् ॥२६॥ तत्र च किं कर्त्तव्यम, उपशमितव्यं च भवति अधिकरणम् । एष सम्बन्ध इह, सूत्रेण पूर्वभणितेन ॥२७॥
अवचूरी-'निग्गंथाग' इति । निर्ग्रन्थानां गाथापतिकुलस्योपाश्रयमार्गेण गमनागमनयुक्ते उपाश्रये संवसनम् अकल्प्यम् अकल्यत्वेन प्रतिपादितम्, इह तत्रैव तादृशे एव उपाश्रये निम्रन्थीनां च संवसनं कल्प्यमुक्तं-कल्यत्वेन प्रतिपादितम् । एतद्-वैषम्यं साधुसंघे कश्चित्साधुः अश्रद्दधानः तत्राश्रद्धां कुर्वाणी विवादग्रस्तो भूत्वा यदि तत्र साधुमण्डल्याम् अधिकरणं कलहं कुर्यात् तत्र कलहविपये किं कर्त्तम् ?
तत्राऽऽचार्य आह–'उपसमियव्वं' इत्यादि, तदुत्पन्नमधिकरणं भगवद्वचनश्रद्धावता साधुना साध्वाचारं विभाव्य उपशमितव्यं भवति स स्वावनतत्वेनाधिकरणस्योपशमं कुर्यादिति भावः, इत्यधिकरणस्योपशमनसूत्रमत्र प्रोच्यते । इह अत्र विषये पूर्वभणितेन सूत्रेण सह एष सम्बन्धः ।।