________________
यतः साधूनां स्वीसागारिकवासे ब्रह्मणि ब्रह्मवते दोषाः संभवेयुः, तथा च आहः-लोके भिन्दा जायते यदेते साध्वः स्त्रीसागारिके उपाश्रये वसन्ति तेन ज्ञायते नैतेषां ब्रह्मवतं विधद्धम्, स्त्रीसंसर्गे पुरुषाणां मनोविकारादेवश्यम्भावादिति, यतः संयमात्मविराधनादयोऽनेके दोषास्ततो निम्रन्थामां त्रीसागारिके उपाश्रये वासी भगवता निषिद्धः । अथापवादमाह-अन्योपाश्रयालाभे पुंवसतौ पुरुषसागारिके निर्ग्रन्थानां वस्तुं कल्पते, किन्तु अत्रापि च एकद्विरात्रं यावत् वस्तुं कल्पते नाधिकम्, आधिक्येन पुरुषसंसर्गेऽपि पुरुषाणां सविकारनिर्विकारादिभिरनेकदोषसंभवादिति ।२४।
पूर्व निर्ग्रन्थानां स्त्रीसागारिकोपाश्रये वासो निषिद्धः, पुरुषसागारिकोपश्रये चापवादेन विधिः प्रोक्तः, साम्प्रतं निम्रन्थीनां वासावासविधि प्रदर्शयितुमाह -'नो कप्पइ०' इत्यादि ।
सूत्रम्--नो कप्पइ निगंथीणं पुरिसंसागारिए उवस्सए वत्थए ॥ सू०२९॥
कप्पई मिग्गंथीणं इत्थीसागारिए उवस्सए वत्थए ॥ सू०३०॥ - छाया -नी कल्पते निप्रन्थीनां पुरुषसागारिके उपाश्रये वस्तुम् ।।सू०२९॥
कल्पते निन्थीनां स्त्रीसागारिके उपाश्रये वस्तुम् ॥सू०३०॥
चूर्णी - 'नो कप्पई' इति । यथा निर्ग्रन्थानां स्त्रोसागारिके उपाश्रये वासनिषेधः प्रोक्तस्तथैवान निर्ग्रन्थीनां पुरुषसागारिके उपाश्रये वासनिषेधः प्रोच्यते, तथाहि-निर्ग्रन्थीनां पुरुषसागारिके पुरुषसहिते उपाश्रये यत्र पुरुषाः वार्तालापं कुर्वन्ति क्रीडन्ति लेखनादिकार्य च कुर्वन्ति, सद्गतमार्गेण गमनागमनं वा कुर्वन्ति तादृशे उपाश्रये, तथा तिर्यक्पुरुषा अपि गोमहिषाजाश्वादिरूपा बद्धा अबद्धा वा भवेयुस्तादृशे उपाश्रये निर्ग्रन्थीनां वस्तुं न कल्पते, स्त्रीजातीनां पुरुषजातिभिः संसगोऽपि नोचितः, कदाचिन्मनुष्याणां मनोविकारादिसंभवे बलात्कारादिना संयमात्मविराधनासंभवात् ।सू०२९॥
___अथापवादमाह-'कप्पई' इत्यादि । अन्योपाश्रयाभावे निम्रन्थीनां स्त्रीसागारिके स्त्रीजनसंयुक्त उपाश्रये वस्तुमल्पकालाय कल्पते । यथा निर्ग्रन्थानां स्त्रीसागारिके पूर्व दोषाः प्रोक्तास्त एवाऽत्र निम्रन्थीसूत्रे पुरुषसागरिके वैपरी येन वा बोद्धव्या इति ।। सू० ३०॥
पूर्व समुच्चयेन विभागेन च स्त्रीपुरुषसागारिकप्रतिश्रयापरपर्याया शय्या प्रतिपादिता, संप्रति सागारिकप्रतिबद्धोपाश्रयविषये निम्रन्थानां निषेधं निग्रन्थीनां च विधिं प्रतिपादयितुकामः प्रथम निर्ग्रन्थानां प्रतिबद्धशय्यायां वासनिषेधमाह-'नो कप्पइ० पडिबद्धसेज्जाए' इत्यादि ।
सूत्रम्--नो कप्पइ निगंथाणं पडिबद्धसेज्जाए बत्थए ॥३१॥ छाया -नो कल्पते निर्ग्रन्थामा प्रतिबद्धशय्यायां वस्तुम् ॥३१॥
चूर्णी-'नो कप्पई'- इति । नो कल्पते निर्ग्रन्थानां प्रतिबद्धशय्यायां, शय्येति वसतिः उपाश्रय इत्यर्थः, प्रतिबद्धेति गृहस्थगृहेण सह एकभित्यादिरूपेण संबद्धा सा प्रतिबद्धा कथ्यते, एतादृशी शय्या-उपाश्रयः प्रतिबद्धशय्या, तस्यां वस्तुं निर्ग्रन्थानां न कल्पते इति सूत्राशयः । प्रतिबद्धोपाश्रयो द्विविधः द्रव्यप्रतिबद्धः भावप्रतिबद्धश्चेति । तत्र द्रव्यतः प्रतिबद्धः वलभीकाछ